________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
[११ प.।
परपाकनिहत्तस्य परपाकरतस्य च ॥४५॥ अपचस्य च भुक्ताऽन्नं विजश्चान्द्रायणं चरेत् । इति ।
परपाकनिवृत्तादीनां त्रयाणं स्वरूपं स्वयमेव वक्ष्यति । तदीयावभोजनं यद्यप्यल्पनिमित्तं , नथाप्यभ्यासाभिप्रायेण महद्तमविरुद्धम् । अनभ्यासेन ईदृशानभोजने भरद्वाज आह,
“परपाकनिवृत्तस्य परपाकरतस्य चा । निराचारस्य विप्रस्य निषिद्धाचरणस्य च ।
अन्नं भुक्ता द्विजः कुर्यादिनमेकमभोजनम्” इति ॥ अपचस्यानप्रदत्वे तदनभोक्रुरेव प्रत्यवायोऽभिहितः। यदा वपचोभुझे इतरः प्रयच्छति, तदानौमुभयोः प्रत्यवाय इत्याह,
अपचस्य च यदानं दातुश्चास्य कुतः फलम् ॥४६॥ दाता प्रतिग्रहीता च तौ हौ निरयगामिनौ। इति ।
अपचस्य, अपचायेत्यर्थः। तस्मै यहानमन्येन क्रियते, तस्मिन् दाने तस्य दातुर्दानफलं नास्ति । न केवलं फलाभावः, किन्त्वमौ दाता सह ग्रहोत्रा नरकं याति।
परपाकनिवृत्तादीनां त्रयाणां क्रमेण लक्षणमाह,गृहीत्वाऽग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् ॥४७॥
* यद्यपि महव्रतस्यानिमित्तं,-इति मु.। । नास्तौदमई मुहितातिरिक्तपुस्तकेछ ।
For Private And Personal Use Only