________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घरापारमाधवः ।
११
अ]
कुर्य्यात्; तदा तादृशस्य पुंसः सर्ववर्णसम्बन्धिनः, एतेन-समनन्तरं निर्दिश्यमानेन क्रमेण, प्रायश्चित्तं भवेत् । स च क्रमः त्रिरात्रोपवासादिः। यहादिबतचरणानन्तरं पञ्चगव्यं पिवेत् । तदाह विष्णुः । “मृतपञ्चनखात्कूपादत्यन्तोपहतमुदकं पौत्वा ब्राह्मणत्यहमुपवसेद् यहं राजन्य एकाहं वैश्यः शूट्रोनक सर्वे चान्ते पञ्चगव्यं पिवेयुः” इति। यदा तु तत्रैव अवमुच्छूनतयोगिनं भवति, तदा हारीतोविशेषमाह,
"क्लिने भिन्ने गवे तोयं तत्रस्थं यदि तत्विवेत् । शुद्ध्यै चान्द्रायणं कुर्यात् तप्तच्छ्रमथापि वा । यदि कश्चित् तत्र* स्नायात् प्रमादेन द्विजोत्तमः ।
जपंस्त्रिषवणस्नायौ अहोरात्रेण शुद्ध्यति" इति । इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजलपानविषयम् । अकामतस्तु षडात्रं,
“किन्न भिन्नं शवं चैव कूपस्थं यदि दृश्यते।
पयः पिवेत् त्रिरात्रेण मानुषे द्विगुणं स्मृतम्इति देवस्लस्मरणात् । मद्यभाण्डस्थितोदकपाने यम आह,
"सुराभाण्डस्थिता आपो यदि कश्चित् पिवेत् दिजः । कुशमूलविपक्केन अहं चौरेण एहति ॥ बादशाहं च पयसा पिवेद्राबी सुवर्चलाम् ।
गायत्र्यास्तु महनी वा जपं कुब्वौत मानसम्” इति । एतन्मतिपूर्वकाभ्यासविषयम्। अकामतोऽभ्यासे तु मनुराह,
* ततः, इति मु.। । गायत्ययसहसं,--इति मु. ।
For Private And Personal Use Only