________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ था।
प्रायश्चित्त काण्डम् ।
श्वश्टगाला दिमरणोपहतकूपादिजलपाने वर्णविशेषेण प्रायश्चित्तविशेषमाह,--
कूपे च पतितं दृष्ट्वा श्वशृगालौ च मर्कटम् । अस्थि चर्मादि पतितं पौत्वाऽमेध्या अपो दिजः ॥४१॥ नारन्तु कुणपं काकं विकराहखरोष्ट्रकम् । गावयं सौप्रतीकञ्च मायूरं खगकं तथा ॥४२॥ . वैयाघ्रमा सेंहं वा कूपे यदि निमज्जति । तटाकस्याथ दुष्टस्य पीतं स्यादुदकं यदि ॥४३॥ प्रायश्चित्त भवेत् पुंसः क्रमेणैतेन सर्वशः । विप्रः शुद्धोत् चिरात्रेण क्षत्रियस्तु दिनदयात् ॥४४॥ एकाहेन तु वैश्यस्तु शूद्रो नक्तेन शुद्ध्यति । इति ।
कूपे पतित्वा मृतं श्वादिकं व्याघ्रादिकं वा दृष्ट्वा तादृशौरमेध्या अपः पौत्वा प्रायश्चित्तौ भवेदिति शेषः । नरस्य मनुष्यस्य संबन्धि कुणपं नारम् । काकस्य मम्बन्धि काकम् ! विड्वराहादिषु सम्बन्धिवाची तद्धिती लुप्तो द्रष्टव्यः। तथाच मति वैड्वराहं खारं श्रौष्ट्रमित्युक्तं भवति। गवयस्य सम्बन्धि गावयम् । शोभनाः पुष्टाः प्रतीका अवयवायस्य गजस्य स सुप्रतौकः, तस्य सम्बन्धि सौप्रतीकम् । मयूरस्थ सम्बन्धि मायूरम् । खड्गो मृगविशेषः, तस्य सम्बन्धि खड्गकम् । व्याघम्य सम्बन्धि याघ्रम् । ऋक्षस्य मम्बन्धि पार्तम् । सिंहस्य सम्बन्धि मैंहम् । एतेषामन्यतमं पतितं कुणपं दृष्ट्वा तद्यनयोः कूपतटाकयोः स्नानपाने यः
For Private And Personal Use Only