________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[११ प.।
“नदीतौरेषु गोष्ठेषु पुण्येवायतनेषु च ।
तत्र गत्वा शुचौ देशे ब्रह्मकूर्च समाचरेत्” इति । ब्रह्मकूर्चस्य सर्वपापदाहकत्वमुपपादयति,-- पवित्रं त्रिषु लेोकेषु देवताभिरधिष्ठितम् ॥३८॥ वरुणश्चैव गोमूत्रे गोमये हव्यवाहनः । दधि वायुः समुद्दिष्टः सोमः क्षौरे एते रविः ॥३६॥
वरुणादिभिरधिष्ठितत्वात् यापदाहकत्वमुपपन्नम्।
अभोज्यानानां भाण्डेऽवस्थितं जलादिकं पौवा ब्रतं चरेदित्युक्रम् । अथ जलस्य स्वमुखनिःसृतस्य* पुनः पाने प्रायश्चित्तमाह,--
पिवतः पतितं तोयं भोजने मुखनिःस्तम्। अपेयं तदिजानीयाङ्गवा चान्द्रायणं चरेत् ॥४०॥
जलं पिवतः पुरुषस्य मुखनिःसृतं भोजनादिना पतितं यत्तीयं तत् त्रैवर्णिकैः पुनर्न पेयम् । कथञ्चित् पौते सति चान्द्रायणेन शुद्धिः। यत्तु मुखं प्रविश्य न निःसृतं, किन्त्वेकस्मिन् पात्रे अर्द्ध पौत्वाऽवशेषितं ; तस्य पाने त्रिरात्रोपवासमाह शङ्खः,--
"पीतावशेषितं पौत्वा पानीयं ब्राह्मणः क्वचित् । त्रिरात्रन्तु व्रतं कुर्याद् वामहस्तेन वा पुनः” इति ।
* 'निःसृत' साने, निःस्वत, इत्येवं पश्यते सर्वत्र मु• पुस्तके । + भाजने,-इति प्रा।
For Private And Personal Use Only