SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ च०] प्रायश्चित्तकाण्डम् । ३४५ बालोडनं हस्तेन, निर्मन्थनं काष्ठेनेति तयोर्भदः । ननु गोबधादिषु यः प्रत्यवायः, स केवलादृष्टरूपत्वात् तस्य प्रायश्चित्तजन्येन सुकृता पूर्वेण निवृत्तियुज्यते। अभक्ष्यभक्षणजन्यस्तु प्रत्यवायो न केवलमदृष्टरूपः, किन्तु दृष्टरूपोऽपि। तस्याहारम्य त्वगस्थ्यादिरूपेण परिणतत्वात्। अतो न तस्य व्रतेन निवृत्तियुज्यते, इत्यत आह,-- यत्त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् ॥३७॥ ब्रह्मकी दहेत् सर्व प्रदीप्ताग्निरिवेन्धनम् ॥ इति । अभक्ष्याणि यथा त्वगस्थ्यादिरूपेण परिणतानि, तथा गोमूत्रादोन्यपि तेन रूपेण परिणमन्ति। परिणम्य चाग्निः काष्ठानोव स्वविरोध्यभक्ष्यपरिणामान् दृष्टमुखेनापि विनाशयन्ति, न तु केवलमदृष्टेनैव मुखेन। तस्माद्ब्रह्माकूर्चनाभक्ष्यभक्षणनिवृत्तिरुपपद्यते । ब्रह्मकूर्खस्य कालविशेषं प्रजापतिराह,-- "चतुर्दश्यामुपोथ्याथ पौर्णमास्यां समाचरेत्"--इति। जाबालिरपि,-- "अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिवेत् प्रात: ब्रह्मकूच ततः स्मृतम्'-दूति ॥ देशविशेषं शातातप आह,-- • इत्यमेव पाठः सर्वेषु पुस्तकेधु । । ब्रह्मक चमिति, इति भु। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy