________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४४
पराशरमाधवः।
[११ प०।
छायाशुष्काणं वा भवति हरितत्वम् । तैर्दभैरवदाय पलाशपत्रेण होतव्यम् । तथा च प्रजापतिः,--
"स्थापयित्वाऽथ दर्भषु पालाशैः पत्रकैरथ ।
तत्ममुद्धृत्य होतव्यं देवताभ्यो यथाक्रमम्”-इति । दर्भवित्यभिधानात् पत्रस्याधस्तादपि दर्भानास्तणयात्। अथ होममन्त्रानाह,-- इरावती इदं विष्णर्मानस्तोके तु शंवती ॥३५॥ एताभिश्चैव होतव्यं हुतशेषं पिवेद्दिजः ॥ इति ।
दरेत्यादौनि बौणि अप्रतीकानि। शमित्येष शब्दो यस्थामचि अस्ति, मा भवती । शमग्निरनिभिस्करदिति वा, शं नो देवीरभिटये इति वा, मा द्रष्टव्या । एतच्चानये वाहेत्यादीनामपि मन्त्राणामुपलक्षणम् । श्रतएव प्रजापतिः,--
"अनये चैव सोमाय सावित्र्यै च तथैवच । प्रणवेन तथा हुवा खिष्टछच्च तथैवच ।
एवं हत्वा च तच्छेषं पिवेच्चैव समाहितः”–दति ॥ पानस्येतिकर्त्तव्यतामाह,-- बालोद्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु ॥३६॥ उद्धृत्य प्रणवेनैव पिवेच्च प्रणवेन तु ॥ इति ।
* पात्रस्याधस्तादपि,-इति मु.। + इरावतीदं विष्णुश्च मानस्तोके च,-इति शा॥ | साविया च,-इति पू ।
For Private And Personal Use Only