SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [११ अ.। अत्र गोमयस्य परिमाणविशेषानभिधानात् वतनान्तरानुसारेणङ्गुष्ठा परिमितं गोमयं स्वीकृत्य यथोक्नोत्तराभिवृद्ध्या गोभूनादौनि योजयेत् । एतत् च मूलवचनोकपरिमाणेन सह विकल्यते, वैषम्यस्याल्पत्वात् । गोमूत्रादीनां षणां प्रत्येकं मन्त्रानाह,माययाऽऽदाय गोमूचं गन्धहारेति गोमयम्। आप्यायस्वेति च शौरं दधिक्राबणस्तथा दधि ॥३२॥ तेजासि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् । पञ्चगव्यमचा पूतं स्थापयेदभिसन्निधौ ॥३॥ इति । __ अचेति पदं गायचादिभिः प्रत्येकमभिसम्बध्यते । तेजोसि देवस्थ त्वेत्यनयोर्मन्नत्वसाम्यादृक्कमुपचरितम्(१)। तैरेतैर्मन्बेर्ट होतं पञ्चगव्यं होमार्थमनिसविधौ स्थापयेत् । * तथा शुक्रमसोत्याज्यं,-इति मु.। + शुक्रमसि, इति मु.। (१) पादबद्धामन्ला ऋचः। तथाध जैमिनिसूत्रम् । “तेषामग्यत्रार्थ वशेन पादयवस्थितिः (मी० ३१० १पा० ३५सू.)"-इति । एवञ्च गायन्यादीनां पादबद्धत्वात् (छन्दोबद्धत्वात् ) ऋक्त्वम् । तेजोसी. त्यादि मन्त्रदयन्तु ज ऋक्, पादबद्धलाभावात् । किन्तु यजुः, गद्यरूपत्वात् । तथाच जैमिनिसूत्रम् । “शेषे यजुःशब्दः (मी० २५. १पा० ३७ सूत्रम्)"-इति । “या ग गीतिन च पादव, तत् प्रनिष्ठपठितं यजुः" इति शावरभाष्यम् । तथाचाच निन्यायेन यजुष्यपि ऋकशब्दप्रयोग इति भावः। - For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy