SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [११ स०। ब्राह्मणापन्यामः । उपसर्पति प्रायश्चित्तमनुज्ञापयितुं परिषदमुपमादयतीत्यर्थः । अहोरात्रमुपोथ्य दिनान्तरे ब्रह्मकूचे पातव्यम् । ब्रह्माकूर्चहेतुरुपवासो ब्रह्माकूर्चापवासः, तेन यजनयोग्यस्य त्रैवर्णिकस्य निष्कृतिर्भवति। शूट्रस्य दूपवासप्रत्याम्नायोदानम् । श्रतः शूद्रोदानं सला पश्चाद्ब्रह्माकूच पिवेत्। तदिदमहोरात्रोपवामपूर्वकब्रह्मकूर्च श्वपाकसदृशमत्यन्तपापकारिणमपि शोधयति, तत्र किमु वक्रव्यं अल्पपापेन निषिद्धजलादिपानेनोपेतं शोधयतौति । ब्रह्माकूर्चस्य द्रव्याण्याह,-- गोमचं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। निर्दिष्टं पञ्चगव्यन्तु पवित्रं पापशोधनम् ॥२८॥ इति। गोमूत्रादिकं पञ्चगव्यं, यच्च कुशोदक, तदुभयं खतः पवित्रं; अतः पापशोधनमिति धर्मशास्त्रेषु निर्दिष्टम् ।। ब्रह्मकूर्चाङ्गभूतानां गोमूत्रादीनां पञ्चानां कारणभूताः याः पञ्च गावः, तामां वर्णविशेषानाह,गोमूत्रं कृष्णवर्णीयाः श्वेतायाश्चैव गोमयम् । पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधि ॥२६॥ कपिलाया एतं ग्राह्यं सर्व कापिलमेव वा। इति। विचित्रवर्णानां पञ्चानां गवामसम्भवे गोमूत्रादिपञ्चकं सर्वमपि कापिलमेव याह्यम्। * परिषदमुपसेवेदित्यर्थः, इति मु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy