SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकामहम् । २५ शुद्ध्यर्थमष्टमे चैव षण्मासान् कृछ्रमाचरेत् । पक्षसङ्ग्याप्रमाणेन सुवर्णान्यपि दक्षिणा ॥११॥ प्रथमः पक्षः पञ्चाहमंसर्गः, तत्र चिरात्रमंज्ञकं कृच्छ्रमाचरेत् । त्रिरात्रकच्छ्रानाम त्रिरात्रोपवामः । तथाच विष्णुः। “अथ कृच्छ्राणि भवन्ति व्यहं नानीयात्" इति । द्वितीयपक्षोदशाहसंसर्गः, तत्र प्राजापत्यमाचरेत् । न च मूलवचने प्राजापत्याग्व्यः कृच्छ्रविशेषोन श्रूयते,-इति शङ्कनीयम् । स्मृतिशास्त्रेषु निरुपपदस्य कृच्छ्रशब्दस्य प्राजापत्यएव प्राचुर्येण प्रयोगात् । “कृच्छ्रमिति प्राजापत्यम्”-इति देवानस्मरणाच्च । प्राजापत्यस्वरूपं मनुराह, "व्यहं प्रातस्त्राहं सायं व्यहमद्यादयाचितम् । व्यहं परन्तु नानौयात् प्राजापत्यं चरन् द्विजः" *- इति । हतीयपक्षोद्वादशाहसंसर्गः, तत्र सान्त पनं कृच्छ्रमाचरेत्। सान्तपनं चतुर्विधं, विरात्रं मप्तरात्रं पञ्चदशरात्रमेकविंशतिरात्रं चेति । तत्र द्विरात्रमप्तरात्रयोः स्वरूपमाह याज्ञवल्क्यः, “गोमूत्रं गोमयं चौरं दधि मर्पिः कुशोदकम् । जग्ध्वा परेऽहुपपवसेत् कृच्छ्रे सान्तपनं चरन् ॥ पृथक् शान्तपनद्रव्यैः षडहः सेापवासकः । सप्ताहेन तु कृच्छ्रोऽयं महाशान्त पनः स्मृतः” -इति । यमेन पञ्चदशाहसाध्यो महाशान्तपनोऽभिहितः, * तदुच्यते,--इति मु० । । महाशान्तपनं स्मृतम्,-इति प्रा । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy