SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ११ ० ।] प्रायवित्तकाण्डम् 1 " द्रुपदा नाम गायत्री यजुर्वेदप्रतिष्ठिता । सर्व्वपापहरा जप्नुर्महतोऽप्येनमः स्मृतम्” – इति । द्विजशुश्रूषणे रतानित्यत्र भोज्यान्नाः शूद्राः सामान्येन निर्दिष्टाः । तानेतानिदानों विशेषतो निर्दिशति, - Acharya Shri Kailassagarsuri Gyanmandir दासनापित गोपाल कुलमिचाईसीरिणः । एते शूद्रेषु भाज्यान्ना यश्चात्मानं निवेदयेत् ॥ २१ ॥ इति । दासादय आत्मनिवेदकान्ताः षट् शूद्रा भोज्यान्नाः । दासादीनां लक्षणमाह, —- ३३७ शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः । संस्कारात्तु भवेद्दासः असंस्कारात्तु नापितः * ॥२२॥ क्षत्रियात् शूद्रकन्यायां सुतो जायेत नामतः । स गोपाल इति ज्ञेयेा भोज्यो विप्रैर्न संशयः ॥ २३ ॥ वैश्यकन्या समुद्धता ब्राह्मणेन तु संस्कृतः । सह्यार्धिक इति ज्ञेया भेोज्यो विप्रैर्न संशयः ॥ २४ ॥ इति । ब्राह्मणः शूद्रकन्यामूदा तस्यां यं पुत्रमुत्पादयति, स यद्यमन्त्रकैर्निषेकादिभिः संस्कारेः संस्कृतो भवति, तदा दास इत्युच्यते ; यसंस्काराद्भवेद्दासः संस्कारादेव नापितः इति प्र० । | समुत्यन्नस्तु यः सुतः, इति मु० । 13 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy