________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११.०० प्रायश्चित्तकाण्डम्।
३३५ मौमन्तोन्नयनादिषु तु धौम्यो विशेषमाह,
"ब्रह्मोदने च सोमे च सीमन्तोनयने तथा ।
जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेन्” इति । तत्र ब्रह्मोदनाख्यं कर्माधानाङ्गभूतं, सोमंसाहचर्यात् । यत्तु भरदाजेनोत्रम्,--
"भुक्तञ्चेत् पार्वणश्राद्धे प्राणायामान् षड़ाचरेत् । उपवासस्त्रिमामादि वत्मरान्तं प्रकीर्तितम् ॥ प्राणायामत्रयं वृद्धावहोरात्री सपिण्डने । अमरूपे स्तं नक्तं तपारणके तथा । द्विगुणं क्षत्रियस्यैव त्रिगुणं वेश्यभोजने ।
माक्षाचतुर्गुणं चैव स्मृतं शट्रस्य भोजनम्"--इति ॥ तदप्यापद्विषयम् । अनापद्यधिकप्रायश्चित्तस्योकत्वात् ।
तं तैलं तथा चौरमित्यत्र शूद्रमम्बन्धिनां तादीनां भोजनमभ्यनुज्ञातम् । इदानौं शद्रतण्डुलादीनामभ्यनुजानाति,-- शुष्कान्नं गोरसं स्नेहं शूद्रवेश्मन आगतम् । पक्कं विप्रयहे भुक्त भाज्यं तन्मनुरब्रवीत् ॥१६॥ इति।
शुष्कानं बौहितण्डुलादि। गोरसः चौरादिः। स्नेहस्तैलादिः।
* यदपि स्मृत्यन्तरम्, इति मु० । + कुर्याद होरात्रं,- इति मु.। + असमाप्त,-इति त्रु ! 5 व्रते वा पाळणे, ति मु ।
For Private And Personal Use Only