________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्तकाण्डम् ।
विसहलगायत्रौजपेन विकल्यते। ते च जपरूपा व्रतविशेषा अयकविषये वेदितव्याः । शकन्तु प्रति छागलेय पाह,
“प्रज्ञानाद् भुनते विप्राः सूतके मृतके तथा । प्राणायामशतं कृत्वा शान्ते शूद्रसूतके । वैश्ये षष्टिर्भवेट्राशि विंशतिर्वाधणे दश । एकाहं च यहं पञ्च सप्तरात्रमभोजनम् ॥
ततः शुद्धिर्भवेत्तेषां पञ्चगव्यं पिवेत्ततः" इति ॥ ब्राह्मणदिक्रमेणैकायहादयो योव्याः । यत्तु मार्कण्डेयेनोकम,
"भुत्वाऽबं* ब्राह्मणशौचे चरेत् सान्तपनं दिजः । भुक्का तु चचियाशौचे चरेत् कच्छं तथैव हि ॥ वैश्याशौचे तथा भुक्ता महासान्तपनं चरेत् ।
शूद्राभौचे तथा भुक्का दिजश्चान्द्रायणं चरेत्” इति । एतत्तु कामकारविषयम् । यच्च गङ्खनोक्तम्,
“शूद्रस्य सूतके भुक्का षण्मामान् व्रतमाचरेत् । वैश्यस्य च तथा भुक्का चतुर्मासान् व्रतं चरे। ॥ चत्रियस्य तथा भुक्का दो मासौ व्रतमाचरेत् । बाह्यणस्य तथाऽशौचे भुक्का मासं व्रतं चरेत्" इति ।
* भक्ता तु,-इति शा। + बोन् मासान् ब्रतमाचरेत्, इति शा• सः । + भवेत्, इति शा।
__42
For Private And Personal Use Only