________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
पराशरमाधवः ।
[११ प.।
चाषांश्च वक्रपादांश्च सौरं वलरमेवच ।
मत्स्यांश्च कामतो जगध्या सोपवासरत्यहं वमेत्” इति ॥ विष्णुस्तु जीवविशेषेण व्यवस्थितं प्रायश्चित्तमाह । “खरोष्ट्रकाकश्वहंसाशने चान्द्रायणं कुर्यात् । प्राश्याज्ञातं सूनास्थं शुष्कमांसं च । क्रव्यादगपतिमांसाशने तप्तकृच्छ्रम् । कलविङ्कालवहंमचक्राइ. मारसरन्नुबाखकोदात्यूहशुकमारिकाबकबलाककोकिलखञ्जरौटाशने त्रिराचमुपवसेत् । एकशफोभयदन्ताभने चौ” इति। शङ्खस्तु भक्ष्याभक्ष्यविभागपुरःसरमभक्ष्येषु प्रायश्चित्तमाह,
"भुक्का पलाण्डु लानं मद्यञ्च कवकानि च । नारं शौनं तथा मांस विड्वराह खरं तथा ॥ गामश्वं कुञ्जरोष्ट्रौ च सर्वान् पञ्चनखांस्तथा । क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात् संवत्सरव्रतम् ॥ भक्ष्याः पञ्चनखाश्चैव गोधाकच्छपान्यकाः । खड्गञ्च शशकं चैव तान् भुक्का नाचरेद् व्रतम् ॥ हमं मत्स्यञ्च काकोलं काकं वा खञ्जरौटकान् । मस्थादांश्च तथा मत्स्यान् बलाकाः शुकमारिकाः ॥ चक्रवाकं प्लवं काकं मण्डको भुजगं तथा ।
* रक्तपादांच,-इति मु० । + दालक,-इति शा. । । शुनां मांसाशने च,-इति शा। । समुच,-इति शा। || काक रगकम्, इति था।
For Private And Personal Use Only