________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
११ ० ।]
प्रायश्वित्तकाण्डम् |
तेन रक्रलशुनकृष्णवृन्ताकादौ नेदं प्रायश्चित्तमित्युक्तं भवति । ग्टनं पत्रविशेषः। यदौयं चूर्णं गायकाः कण्ठशार्थं भक्षयन्ति । विटाच स्वराद्यर्थम्' । मूलविशेषो वा ग्टञ्जनापरपर्य्यायः । पलाण्डुः स्थूलकन्दीलशुनविशेषः । वृचनिर्यासेो हिङ्गुकर्पूरादिव्यतिरिक्तः । हिंग्वादीनां भोज्यत्वाभ्यनुज्ञानात् । देवतार्थमुपकल्पिते चेत्रादावुत्पन्नमत्रं देवस्वम् । कवकं भूमौ छत्राद्याकारेणोत्पन्नं शिलीन्धुशब्दवाच्यम् । पौथूषादिभोजी चिराचमुपोष्य चतुर्थे दिवसे पञ्चगव्यं पिबेत् । मतिपूर्वे तु भोजने मनुराह -
“छत्राकं विवराहञ्च लशुनं ग्राम्यकुक्कुटम् 1 पलाण्डुग्टञ्जनं चैव मत्या जग्ध्वा पतेद्दिजः " - इति ॥ श्रमतिपूर्व्वे सएवाह, --
“श्रमत्येतानि षड् जग्ध्वा कृच्छं मान्तपनं चरेत् । यतिचान्द्रायणं वाऽपि शेषेषूपवसेदहः " - इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
* वेश्यास्ख मदाद्यर्थम्, -- इति मु० । + क्षुद्रवृन्ताकम् - इति मु० ।
तच सप्तरात्रात्मकं सान्तपनं वेदितव्यम् । “ श्रबुद्धिपूर्वै सान्तपनं सप्तराचं वा" - इति गौतमेन सप्तरात्रोपवाससमविकल्पस्मरणत् । एवञ्च सति मूलवचनोक्तत्र्यहोपवासोभक्षितोद्गारित विषयः द्रष्टव्यः । चान्द्रायणन्त्वावृत्तिविषयम् । शेषेषूपवसेदहरित्येतत् कुसुम्भादिषु द्रष्टव्यम् । तथा चतुर्विंशतिमते, -
" पलाण्डुं श्वेतवृन्ताक कुसुम्भं वनकुक्कुटम् ।
For Private And Personal Use Only
३१७