SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। {११ च मृतके सूतके चैव स्वर्गस्थमपि पातयेत्”-इति ॥ नटादिरभोज्यः । विप्रादीन् भोजयितुमनहत्वात् । तथाच वृहस्पतिः, "नटनर्तकतक्षाणश्चर्मकारः सुवर्णकृत् । स्थाणुपाषण्डगणिका अभोज्यानाः प्रकीर्तिताः" इति ॥ याज्ञवल्क्योऽपि, "कदर्य्यबद्धचोराणां क्लीवरङ्गावतारिणाम् । वैणभिशस्तवा व्यगणिकागणरक्षिणम् ॥ चिकित्सकातरोन्मत्तपुंश्चलीक्रुद्धविदिषाम् । क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ अवौरस्त्रीस्वर्णकारस्त्रौजितग्रामयाजिनाम् । स्त्रीविक्रयिकर्मकारतन्तवायश्ववृत्तिनाम् ॥ नशंसराजरजककृतघ्नबधजीविनाम् । चेलधावसुराजीवसहोपपतिवेश्मनाम्॥ एषामन्नं न भोक्रव्यं सोमविक्रयिणस्तथा"-इति । गतिमित्यत्र द्विविधा शङ्का विवक्षिता, विषप्रक्षेपिका शास्वनिन्यत्वशङ्का चेति। तथाहि, केषुचित् कौकटदेशेषु प्रेतभूतगणादिरूपास्ताममादेवतास्तोषयितं नरवलिं सङ्कल्य मनुष्यान्मारयितुं अन्नमध्ये गूढं विषं प्रक्षिपन्तीत्यस्ति महती प्रसिद्धिः। तादृशेषु गृहेषु विषभकासम्भवात् पङ्कितमन्नमित्युच्यते । तत्तु न भोक्तुं योग्यम्, "विषं चोपविषं भुक्का चरेच्चान्द्रायणव्रतम्” इति * नास्तीदमई मु० पुरु के । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy