________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
परापारमाधवः ।
[११ छ।
पञ्चगव्यब्रह्मकूर्चयो विधानमुत्तरत्र वक्ष्यते। तत्र शूद्रस्थामन्त्रस्यामन्त्रकं पञ्चगव्यं, इतरेषां समन्त्रकं ब्रह्मकूर्चम् । विप्रोगामेकां दक्षिण दद्यात् । क्षत्रियो द्वे, वैश्यस्तिस्रः, शूद्रश्चतस्रः। गवामसम्भवे सुवर्ण दद्यादित्यभिप्रेत्य वाशब्दः पठितः। तत्र सुवर्णस्य गोप्रत्याबायस्य परिमाणमाह प्रजापतिः,
"गवामलाभे निष्कं वा* निष्कार्द्ध पादमेदवा"-इति । विप्रस्थ शूट्राद्यन्नभोजने प्रायश्चित्तमाह,शूद्रानं सूतकानञ्च अभोज्यस्यानमेवच । शङ्कितं प्रतिषिड्वान्नं पूर्वोच्छिष्टं तथैवच ॥४॥ यदि भुवन्तु विप्रेण अज्ञानादापोऽपि वा। जात्वा समाचरेत् कृच्छं ब्रह्मकुर्वन्तु पावनम्॥५॥ इति
अत्र शूट्रान्नस्य गर्हितताऽङ्गिरमा प्रपञ्चिता,
"ाहिताग्निस्तु यो विप्रः शूट्रान्नं प्रतिग्टह्य तु । भोगात्तत्समतां याति तिर्यग्यो नि च गच्छति । यस्तु वेदमधीयानः शूट्रानमुपभुति। . शूटे वेदफलं याति शद्रत्वं चापि गच्छति ॥
* निष्कं स्यात्, इति प्रा० । * ब्रह्मकुईन,-इति मु.। । निषेधः व्याङ्गिरसा प्रपञ्चितः-इति मु. । $ याति स दिजः, इति मु ।
For Private And Personal Use Only