SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापूरमाधवः । तत्तदवान्तरविशेषोनिश्चेतव्यः । तत्रादौ तावदमेध्यादिभोजने प्रायश्चित्तमाह,अमेध्यरेतागोमांसं चण्डालान्नमथापि वा। यदि भुक्तन्तु विप्रेण कृच्छं चान्द्रायणञ्चरेत् ॥ १॥ अमेध्यं विएमूत्रादि, तदुपस्पृष्टस्यान्त्रस्य* भोजनममध्यभोजनम् । न चात्र केवलस्यामेध्यस्थ विप्रेण भोजनं क्वचित् सम्भवति । तदुपस्पृष्टानभोजनन्तु सम्भाव्यते । बालापत्यसहभोजनस्य प्राचर्येण लोके दर्शनात्। रेतोभोजनन्तु गलयोन्यादिव्याधियस्तेषु सम्भावितम् । तथा गोमांसचण्डालानभोजनं वन्दौग्रहौतादिषु । तत्र सर्वत्र चान्द्रायणेन शुद्धिः। अथवा । चतुर्विधं मेध्यं, तविपरीतममध्यम् । तदाह देवलः, "वक्ष्यतेऽतः परं सर्वे मेयामध्यसमुद्भवम् । शुचि पूतं स्वयं शुद्धं पवित्रं चेति केवलम् ॥ मेध्यं चतुर्विधं लोके प्रजानां मनुरब्रवीत् । दूषितं कश्मलं दुष्टं वर्जितं चेति लिङ्गतः ॥' चतुर्विधममेध्यञ्च सर्वं व्याख्यास्यते पुनः । नवं वा निर्मलं वाऽपि शुचौति द्रव्यमुच्यते ॥ शुद्धं पवित्रभूतञ्च पूतमित्यभिधीयते । खयमेव हि यद् द्रव्यं केवलं धन्यतां गतम् ॥ * तदुपराष्ट्रस्यान्नस्य,-इति मु.। एवं परत्र । + समुच्चयम्, इवि मु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy