SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ एकादशोऽध्यायः। मौलनौरदनिभं निरन्तरं निर्जिताखिलनिशाचरं वयम् । मन्महेऽमलविशाललोचनं मारुतात्मजविभुं रघूदहम् ॥ दशमेऽध्याये ह्युपपातकविशेषस्यागम्यागमनस्य प्रायश्चित्तमभिधाय तत्प्रसङ्गाद्गुरुतल्यादीनामपि प्रायश्चित्तमभिहितम् । एकादशाध्याये बभोज्यभोजनस्य प्रायश्चित्तं प्राधान्येनोपवीते। तच्चानुपातमित्येके । सुरापानममत्वेन मनुनोपवर्णनात् । "ब्रह्मोजझता वेदनिन्दा कूटसाक्ष्यं सुहद्दधः । गर्हिताबाद्ययोर्जग्धिः सुरापानसमानि षट्” इति । उपपातकमित्यपरे । मनुनैव, "आत्मार्थं च क्रियारम्भोनिन्दिताबादनं तथा"रत्यादिना कानिचिदनुक्रम्यान्ने “नास्तिक्यं चोपपातकम्”इति निगमनात् । अत्रायं निर्णयः। यस्मिन्नभक्ष्यविशेषे गर्दाधिक्यात् कामकतादभ्यासादा - यश्चित्तगौरवं स्मर्य्यते, तस्थाभक्ष्यस्य भक्षणमनुपातकं, यत्र प्रायश्चित्ताल्पत्वं तदुपपातकम्। यथा पूर्वचागम्यगमनलोपाधिनैकाकारेऽपि प्रायश्चित्ताल्पत्वात् पारदार्यमुपपातकम्, मानभगिन्यादिगमनं प्रायश्चित्तबाइल्यादतिपातकमिति विष्णुनाऽभिहितम् । एवं मर्वत्र नामसाम्येऽपि गौरवलाघवाभ्यां । * नास्त्य यं लोकोमुद्रितातिरिक्तपुस्तकेषु । + खोयाधिनैकेनापि,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy