________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
२७१
"कैवर्ती रजकों चैव वेणचर्मापजीविनीम् ।
प्राजापत्यविधानेन कृच्छ्रेणैकेन ड्यति"-इति । चर्मापजीविनौं गच्छनिति शेषः। तद्रेतःसेकात् प्रानिवृत्तिविषयम् । कापालिकस्त्रीगमने यम आह,--
"कापालिकाम्नभोकृणां तन्नारोगामिनां तथा ।
ज्ञानात् कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दवद्वयम्"-इति । जातिभेदेन गर्भाधाने चतुर्विंशतिमतेऽभिहितम्,
"ब्राह्मणीगमने कृच्छ्रे गर्भ सान्तपनं चरेत् । राजौगर्भ पराकः स्यादैश्यागर्ने व्यहाधिकम् ॥ शुद्रागर्भ द्विजः कुर्यात्तच्चान्द्रायणव्रतम् ।
पण्डाल्यां गर्भमारोप्य गुरुतत्पव्रतञ्चरेत्" इति । विधवागमने चतुर्विंशतिमतेऽभिहितम्,
"विधवागमने कृच्छ्रमहोरात्रसमन्नितम् ।
व्रतस्थागमने कृच्छं सपादन्तु समाचरेत्”-इति ॥ मुखमैथुने ढूशनसोकम् । “यस्तु पुनर्ब्राह्मणे धर्मपत्नीमुख मैथुनं सेवेत म दुष्यति, प्राजापत्येन शुयति”-इति । रजस्खलागमने सम्वत श्राह,
"रजस्वलान्तु यो गच्छेद् गर्भिण पतितां तथा ।
तस्य पापविशुद्ध्यर्थमतिकृच्छ्रो विशोधकः” इति ॥ श्रापस्तम्बोऽपि,
"उदयां यदि गच्छेत ब्राह्मणो मदमोहितः। * व्यहादिकम्, इति मु. ।
For Private And Personal Use Only