SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० अ० । प्रायश्चित्तकाण्डम्। २६१ मबुद्धिपूवं गच्छति, तदा वेदजपसहितत्रैमासिकचान्द्रायणं द्रष्टव्यम्। यच्च व्यानेणोकम् , "कच्छं चैवातिकृच्छ्रञ्च तथा कृच्छ्रातिकृच्छ्रकम् । चरेन्मासत्रयं विप्रः क्षत्रियागमने गुरोः" इति ॥ तत्र* बुद्धिपूर्व सकृद्गमने उमयोरिच्छातः प्रवृत्ते अतिकृच्छ्रः, तया प्रोत्साहितस्य कृच्छ्रः, खेनैव प्रोत्साहितायां कृच्छातिकृच्छ्रः। तत्राप्यभ्यासे मरणान्तिकमेव । यथाऽऽह देवलः - "मत्या गत्वा पुनर्भार्या गुरोः क्षत्रसुतां द्विजः । अण्डाभ्यां वर्जितं लिङ्गमुत्कृत्य च मृतः शुचिः” इति ॥ अबुद्धिपूर्व सकृद्गमने कण्वोतं द्रष्टव्यम्, "चन्द्रायणं तप्तकृच्छ्रमतिकृच्छं तथैवच । मकृद् गत्वा गुरो र्यामज्ञानात् क्षत्रियां दिजः” इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्ते तप्तकृच्छ्रम्, तया प्रोत्साहितस्यातिकृच्छ्र, खेन प्रोत्साहितायां चान्द्रायणं द्रष्टव्यम् । अभ्यासे तु जातकर्ण्यः, “गुरोः क्षत्रसुतां भाऱ्या पुनर्गत्वा त्वकामतः । वृषणं मात्रमुत्कृत्य शयेज्जीवन् मृतश्च मः” इति ॥ वैश्यायां बुद्धिपूर्ख मकृद्गमने कण्व आह, “तप्तकृच्छं पराकञ्च तथा शान्तपनं गुरोः ॥ भायां वैश्यां मकृद्गत्वा बुद्ध्या मामञ्च रेविजः" इति ॥ * तञ्च, इति मु.। । कण्वः , इति मु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy