SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ पराशरमाधवः। [१० ब.। एतच्च पक्षाभ्यासविषयम् । यच्च मनुनोत्रम्, "गुरुतल्पव्रतं कुर्य्याद्रेतः सिक्का खयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारौव्वन्यजासु च" इति । एतच मामाभ्यासविषयम्। यञ्च यमेनोक्रम्, "रेतः मिक्का कुमारीषु चण्डालौवन्यजासु च । मपिण्डापत्यदारेषु प्राणत्यागो विधीयते"-इति । एतच्च सम्बत्मराभ्यासविषयम् । अथ माटगमनप्रायश्चित्तमुच्यते । यद्यप्येतन्नोपपातक, तस्यातिपातकेषु पाठात्(१)। तथाप्यगम्याग-- मनावान्तरभेदप्रसङ्गादत्राभिधानम् । तत्राज्ञानवते मात्रादिगमने प्रायश्चित्तमाह,मातरं यदि गच्छेत्तु भगिनों स्वसुतां तथा। एतास्तु मोहितोगत्वा चौणि कृच्छ्राणि सञ्चरेत् ॥८॥ चान्द्रायणत्रयं कुयात् शिश्नच्छेदेन शुद्ध्यति ॥ इति । ___ मातरं जननौम् । इतरासां मावणां, “पिटदारान् समारुह्य"इति वत्त्यमाणत्वात् । भगिन्येकोदरा, तस्याएव मुख्यत्वात्। तथा, वसुतेति सवर्णायां भाव्यामुत्पन्ना। तत्र त्रीणि प्रायश्चित्तानि ; प्राजापत्यत्रयमेकं, चान्द्रायणत्रयं द्वितीयं, शिश्नच्छेदस्ततीयम् । एतच्च मैथुनप्रकारभेदविषयतया योजनीयम् । मैथुनं चाष्टविधम्, (१) “माटगमनं दुहिट गमनं स्वघागमनमित्यतिपातकानि"-इत्या दाविति प्रेषः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy