________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० घ.]
प्रायश्चित्तकाण्डम् ।
२४६
क्षत्रियो वाऽथ वैश्यो वा चण्डालों गच्छतो यदि । प्राजापत्यइयं कुर्याद्दद्याहोमिथुनद्दयम् ॥६॥ इति।
स्पष्टम्। शूद्रस्य त्वल्पं ब्रतमधिका दक्षिणेत्याह,
पाकी वाऽथ चण्डाली शूद्रो वा यदि गच्छति । प्राजापत्यं चरेत् कृच्छं चतुर्गोमिथुनं ददेत् ॥७॥ इति।
ननु स्मृत्यन्तरेषु चण्डालौगमने प्रायश्चित्तान्यन्यथा स्मर्यन्ते । तत्र कानिचित् प्राचार्योकात् प्रायश्चित्तात् न्यूनानि, कानिचिदधिकानि। यथा सुमन्तुः । “मानवसृपिष्वसस्नुषाभगिनीभागिनेयोगोचण्डालौनामभिगमने तप्तकृच्छ्रम्” इति । तदेतदकामतः प्रचतस्य रेतःसेकात् प्रानिवृत्तौ द्रष्टव्यम् । यत्त्वङ्गिरसोक्कम,
“पतितान्यस्त्रियो(१) गत्वा भुक्ता च प्रतिग्टह्य च ।
मासोपवामं कुर्बोत चान्द्रायणमथापि वा”-इति ॥ तत्र चान्द्रायणं कामतः प्रवृत्तस्य रेतःसेकात् प्राङ् निवृत्तस्थाप्रक्रस्यावगन्तव्यम् । शकस्य तु मासोपवासः । गोदयदक्षिणायक्रस्य
(१) पतिताः पतनवन्तः। पतनच महापातकादिदोषेण दिजातिकम्मी
नधिकारः नरकभागित्वच। तदुक्तम् । “दिजातिकर्मभ्योहानिः पतनं परत्र चासिद्धितमेके नरकम्" इति । अन्ते भवा अन्त्यानवमश्वपचादयः।
32
For Private And Personal Use Only