________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
पराशरमाधवः।
[१.प.
अगम्यागमनमात्रे प्रायश्चित्तमभिहितम् । तद्विशेषेषु प्रायश्चितानि वक्रव्यानि । तत्रात्यन्तनौचजातिगमने* प्रायश्चित्तमाह,चण्डाली वा श्वपाकों वा अनुगच्छति यो विजः। चिराचमुपवासित्वा विप्राणामनुशासनात् ॥ ४॥ सशिखं वपनं कृत्वा प्राजापत्यदयं चरेत् । गोदयं दक्षिणां दद्यात् शुद्विपाराशरोऽब्रवीत्॥५॥इति।
ब्राह्मण्यां शूद्रानाता, चण्डाली; आरूढ़पतितानाता च(९), मगोधामाता वा । तदेतत् त्रिविधचण्डालत्वं यम आह,
"आरूढ़पतितानातो ब्राह्मण्यां शूद्रजश्च यः ।
चण्डालौ तावुभौ प्रोक्तो सगोत्राद्यश्च जायते"-इति । एतत्रिविधचण्डालसन्ततौ जाता स्त्री चण्डाली। उत्त्पयोर्जाता स्त्री श्वपाको । तदाह मनुः,
"क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्तितः”। दिजशब्दोऽत्र ब्राह्मणपरः। क्षत्रियवैश्ययोः पृथवक्ष्यमाणत्वात् । उपवामित्ला उपवापञ्चरित्वेत्यर्थः। श्राचारार्थविवन्तात् शब्दनिष्यत्ते:(२)।
क्षत्रियवैश्ययोर्दक्षिणाऽऽधिक्यमाह,
* तत्र पतितनौचजातिगमने,-इति शा० ।
(१) यस्तु नैष्ठिकं धर्ममारू ः प्रमादतस्तस्मात् यवते, स बारूपतितः
इत्युच्यते। (२) उपवास शब्दादाचारार्थे किम्, ततः क्विालापः, ततः क्वान्प्रत्ययेन
'उपवासित्वा' इति पदं निष्पन्नमिति भावः ।
For Private And Personal Use Only