________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१. ब.
प्रायश्चित्तकाण्डम्
दोषो व्रतवैकल्यं, तेन दोषेण, धर्मश्चन्द्रलोकप्राप्तिहेतुस्तपोरूपोव्रतविशेषः, स न सम्पद्यते। नाप्यस्य पापाच्छुद्धिर्भवति । चान्द्रायणसाध्यं फलं द्विविधं, पुण्यलोकप्राप्तिः पापनिवृत्तिश्चेति। तदुभयमधिकपरिमाणग्रासाननतो न मिध्यति । चान्द्रायणस्य फलदै विध्यं यम पाह,
“यत्किञ्चित् कुरुते पापं कर्मणा मनमा गिरा। विजश्चान्द्रायणं कृत्वा तस्मात् पापात् प्रमुच्यते । एतानि विधिवत् कृत्वा षभिर्मासैईविष्यभुक् । व्यपेतकल्मषो विप्रश्चन्द्रस्यैति मलोकताम्" इति । प्रतचरणानन्तरकर्त्तव्यमाह,प्रायश्चित्ते ततश्चौर्णे कुर्याद्राह्मणभोजनम् । गोइयं वस्त्रयुग्मञ्च दद्यादिप्रेषु दक्षिणाम् ॥ ३॥ इति ॥
संख्या विशेषानुपादानात् शक्त्यनुसारेण ब्राह्मणभोजनमिति वेदितव्यम् ।
इत्यनेन साक्षादेव न्यूनपरिमाणं विहितम् । युक्तच्चैतत् । तथाहि, यथोक्त परिमाणस्य न तावदयुद्धविधिः, रागतः प्राप्तत्वेन तद. सम्भवात् । नापि तत्परिमाणभोजनस्यावश्यकत्वा) नियमविधिः, नियोज्यादिकल्पनापत्तेः । तत्परिमाणभोजनसमकालमन्यभोजनेऽपि दोघाभावापत्तेः । अङ्गल्यग्रस्थितं वापौत्यनेन न्यून परिमाणस्याभिहितत्वाच्च । तस्मात् चान्द्रायणस्य तपस्वात् तपसच क्लेशसभावत्वादुक्तपरिमाणादधिकपरिमाण नितिफलकः परिसंख्याविधिरयम् । तस्मात् सुष्कम्, उक्त परिमाणादधिक परिमाणत्वमन्यथाभाव इति ।
For Private And Personal Use Only