________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० च ।
प्रायश्चित्तकाण्डम् ।
२४५
अमावास्यां पौर्णमास्यां व्रतं चान्द्रायणं चरेत् । ग्रामान प्रवर्द्धयेत् सोमः पञ्च पञ्च च पञ्च च(१) ॥ एकैकं वर्द्धयेत् पिण्डं शक्ल कृष्णे च हासयेत् । अमावास्यां न भुञ्जीत एष चान्द्रायणो विधिः ॥ एकै हामयेत् पिण्डं कृष्णे एक्ले च वर्द्धयेत् । एतत् पिपीलिकामध्यं चान्द्रायणमुदाहृतम् ॥ वर्द्धयेत् पिण्डमेकैकं एक्ले कृष्णे च हासयेत् ।
एतच्चान्द्रायणं नाम यवमध्यं प्रकीर्तितम् (२)”-दति ॥ पुनरपि प्रकारान्तरेण चान्द्रायणं त्रिविधम्, ऋषिचान्द्रायणं शिशुचान्द्रायणं यतिचान्द्रायणमिति । तेषां स्वरूपं यम पाह,
"ौंस्त्रीन् पिण्डान् समश्नीयानियतात्मा दृढ़व्रतः । हविष्यानस्य वै मासम्मृषिचान्द्रायणं स्मृतम् । चतुरः प्रातरौयाच्चतुरः सायमेवच ॥ पिण्डानेतद्धि बालानां शिशुचान्द्रायणं स्मृतम् । पिण्डानष्टौ समीयान्मासं मध्यं दिने वरौ।
यतिचान्द्रायणं ह्येतत् मर्वकल्मषनाशनम्” इति । विष्णुरपि पञ्चविधं चान्द्रायणमाह। “अथ चान्द्रायणम् । ग्रासाना
. * धमायां पौर्णमास्याच्च,-इति मु.।
+ धमायान्तु,-इति मु० । (१) सोमोयथा क्रमेण पञ्चदशकलाभिर्वते, तथा पश्चदशग्रासान् वई
येदित्यर्थः। (२) तथाच, पिपीलिकामध्यस्य कृष्ण पक्षे उपक्रमः, यवमध्यस्य शुक्रपक्ष
उपक्रमइति भावः।
For Private And Personal Use Only