________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० प.]
प्रायश्चित्तकाण्डम्।
२०१
पूर्व पक्षम् । विपरीतमेकेषाम् (१) । एष चान्द्रायणीमामः"--इति । एकेषां भुनौनां मते पूर्वोत्तात् पिपीलिकामध्यपक्षाविपरीतं यवमध्यचान्द्रायणम् । तच्च मनुचिस्पष्टमाह,
"एतमेव विधिं कृत्स्नमाचरेत् यवमध्यमे ।
शुक्लपक्षादिनियतश्चरंश्चान्द्रायणव्रतम्-इति” । "तदेतच्चान्द्रायणदयं देवलोऽप्याह। “चान्द्रायणं दिविधं यवमध्यं पिपीलिकामध्यमिति। एकग्रासममावस्यादि यवमध्यम् । पञ्चदश यामान् पौर्णमास्यादि पिपीलिकामध्यम्” इति । यमोऽपि । "प्रथातश्चान्द्रायणकल्पं व्याख्यास्यामः । तद्यथा,- .
पौर्णमास्थामुपेतस्तु ब्राह्मण: सुसमाहितः । केशमश्रूणि लोमानि कक्षोपस्थं च वापयेत् ।
यथाविधि ततः कृत्वा रोयात् सुसमाहितः । मधु मांमञ्च लवणं एक्लवासांसि वर्जयेत् ॥ स्त्रीशूद्रौ नाभिभाषेत सत्यवादी च संयतः । पालाशं धारयेद्दण्डं शुचि चर्म च मेखलाम् ॥
* नास्त्ययमंशामुदितातिरिक्त पुस्तकेषु । + नास्त्ययं श्लोकः मु० पुस्तके । + शुचिमौजौ,-इति शा।
(१) शुलप्रतिपदमारभ्यैकैकग्रासवद्या पौर्णमास्यां पञ्चदश ग्रासान्
भुनौत, ततः कृष्णप्रतिपदाकैकग्रासहासेनामावस्यायामुपवसेदिति विपरीतमित्यर्थः ।
31
For Private And Personal Use Only