________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
1]
प्रायखितकाण्डम् |
प्रायश्चित्त्या, सा प्रायश्चित्तिः निष्कृतिः । तस्या अनर्थफलनिवारकत्वाद्धितत्वम् । ऋतौ भार्य्यामुपेयादिति शास्त्राद्गम्या स्वभाबी, तदितरा सबऽपि योषिद्गम्या । तद्गमने प्राप्ते सति तच्छुद्धिनिमित्तं चान्द्रायणं प्रायश्चित्तमाचरेत् ।
चान्द्रायणस्य लचणमाह
एकैकं ह्रासयेद्दासं कृष्णे शुक्ले च वईयेत् ।
श्रमावास्यां न भुञ्जीत ह्येष चान्द्रायणेा विधिः॥२॥ इति ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
२३९
,
द्विविधं हि चान्द्रायणं यवमध्यं पिपीलिकामध्यं चेति । यथा यवस्य मध्यं स्थूलं उभावन्तौ सूक्ष्म तथा शुक्लप्रतिपदमारभ्य प्रतिदिनमेकैकग्रासवृद्ध्या पूर्णिमायां पञ्चदश ग्रासाः, कृष्णप्रतिपदमारभ्य प्रतिदिन केकयामासे सत्यमावास्यायामुपवास इति मध्यभागस्यौस्ह्याद्यवमध्यत्वम्। यथा पिपीलिकानां शिरःपृष्ठभागौ स्थूलौ मध्यं सूक्ष्मं तथा यस्य चान्द्रायणस्य मध्यमे श्रमावास्यादिने सर्व्वग्रासहामः, तस्य मध्यमभागसौक्ष्म्यात् पिपीलिकामध्यत्वम् । तदिदं पिपीलिकामध्यमाचार्येणोपन्यस्यते । तथाहि, कृष्णप्रतिपदि व्रतं संकल्प्य चतुईश ग्रासान् भुञ्जीत, ततो द्वितीयामारभ्य प्रतिदिन मेकैकस्य ग्रामस्य ड्रामे मति श्रमावास्यायामुपवास: सम्पद्यते । पुनः शुक्लप्रतिपदि ग्रासमेकमुपक्रम्य पतिदिनमेकैकग्रासवृया पौर्णमास्यां पञ्चदश ग्रासाः सम्पद्यन्ते । सएष पिपीलिकामध्यस्य चान्द्रायणस्यानुष्ठानप्रकारः । तदिदं वसिष्ठोऽपि स्पष्टमाह -
“मासस्य कृष्णपचादौ ग्रासान द्याच्चतुर्द्दश ।