SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ पराशरमाधवः। [ .। त्रिसन्ध्यमवगाहनमिति यत्पूर्वमुक्त, तत् स्त्रीणमपि समानम् । मुरार्चनं नमस्कारादि । पच्छ्रचान्द्रायणदिकं यतं तद्योषितोबन्धुमध्येऽनुतिष्ठेयुः, न पुरुषादव विजने देशे । नियमान्तरमाहगृहेषु सततं तिष्ठेत् शुचिनियममाचरेत् ॥५८॥ इति । प्रक्रान्तस्य व्रतस्य समाप्तिपर्यन्तं ग्रहसौखोन वहिर्गच्छेत् । अध्यायदयेन यत्प्रायश्चित्तं प्रपञ्चितं, तस्थाननुष्ठाने विविधं दिव्यं भौमं च नरकविशेषं दर्शयति, इह यो गावधं कृत्वा प्रच्छादयितुमिच्छति । स याति नरकं घोरं कालसूत्रमसंशयम् ॥ ५ ॥ विमुतो नरकात्तस्मात् मयलोके प्रजायते ॥ लोवोदुःखीच कुष्ठीचसप्तजन्मामि वै नरः॥६॥ इति। मित्रादौनामुत्कोचदानादिना जनापवादमात्रपरिहारः प्रच्छादनम् । घोरस्य नरकविशेषस्य नामधेयं, कालसूत्रमिति। मोऽयं दिव्यो नरकः । नैरन्तर्येण सप्तजन्मसु क्लोवत्वादिदोषयोगोभौमोनरकः । अध्यायद्वये प्रतिपादितं प्रकरणार्थमुपसंहरति*, * तत्प्रकाशार्थमुपसंहरति, इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy