________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
पराशरमाधवः।
[ए
।
गवां निपातो भवति ; तथा, बुधशशुक्रसामीप्यादिना प्रवृत्तायामति पृष्टौ शौतवातपौडिता गावो म्रियन्ते, तत्र तत्वामिनः प्रत्यवायोनास्ति ।
संग्रामादेरपि न प्रत्यवायहेतुत्वमित्याह,संग्रामे प्रहतानाच* ये दग्धा वेश्मकेषु च । दावामिग्रामघातेषु प्रायश्चित्तं न विद्यते ॥४४॥ इति ॥ ___ सेनयोरुभयोर्युद्धे भति तत्र प्रहृता गावो नियन्ते। स्कन्धावारनिर्मितानि हणमयानि वेश्यकानौत्युच्यन्ते । तेषु वैरिभिर्दह्यमानेषु तत्र गावोनियन्ते । तथा, क्वचिद्दावामिना अरण्यममोपवर्त्तिनो ग्रामादग्धा भवन्ति, तत्र गाव उपहन्यन्ते। न चैतेषु विषयेषु खामौ प्रत्यवायं प्राप्नोति।
गवां हिते प्रवृत्तस्य प्रामादिकं गोमरणं न प्रत्यवायजनकमित्याह,यन्त्रिता गौश्चिकित्सार्थ मूढगर्भविमोचने। यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते ॥ ४५ ॥ इति ॥ ___ व्रणरोगादौ दाहच्छेदादिचिकित्मार्थं रवादिना यन्त्रिता गौः प्रमादादिपद्येत; तथा, योनिद्वारि समागतस्य मृतस्य गर्भस्य निर्गमनार्थं तदाकर्षणदिप्रयत्ने क्रियमाणे कथञ्चिगौर्मियेत, तत्र हितमाचरन् पुरुषो न प्रत्यवैति । एतदेव संवर्त्त बाह,
* निहता ये च, इति मु.।
For Private And Personal Use Only