________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घ.]
प्रायश्चित्तकाण्डम् ।
२२३
स्वामौ तु तत् न जानाति, तत्र न खामिनः प्रत्यवाय इत्याह,कृपखाते तटा* बन्धे नदीबन्धे प्रपासु च । पानौयेषु विपन्नानां प्रायश्चित्तं न विद्यते ॥३६॥ इति ॥
अगाधः कूपः कूपखातः। तटेन नदौतौरेण वा समतावध्यते,इति तटाबन्धः प्रौढतटाकः। नदीबन्धः सेतुः । धर्मकाले गवामुदकपानार्थं निर्मिताः प्रौढाः पाषाण दिद्रोण्यः प्रपा। तेषु पातुं प्रविश्य मृताखपि न स्वामिनः प्रायश्चित्तं विद्यते । ___ एवं तर्हि तादृशकूपादिनिर्मातु: प्रत्यवायोऽस्तोत्याशङ्याह,कूपखाते तटाखाते दौर्षीखाते तथैव च । अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते ॥४०॥ इति ॥
खननं खातः । दीर्थावाप्यः । अन्यशब्देन जलद्रोणोकुल्यादयउच्यन्ते । एतेषां धर्मार्थ निर्मितत्वात् कथञ्चित्तत्र पतित्वा मृताखपि गोषु न निर्मातुः प्रत्यवायोऽस्ति ।
कूपखातादिवद्वेश्यखातादावपि प्रत्यवायाभावमाशच तस्य धर्मार्थत्वाभावादस्ति प्रत्यवाय इत्याह,वेश्मदारे निवासेषु यो नरः खातमिच्छति । स्वकार्यगृहखालेषु प्रायश्चित्तं विनिर्दिशेत् ॥४१॥ इति ॥ * सडा --ति वीययुक्त के पाठः : एवं परत्र । 1 --हुनि मु. पानीले तदा वाले खाद च.--इति मु.।
For Private And Personal Use Only