________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६अ।
प्रायश्चित्तकाण्डम् ।
२१६
बन्धने चरेदित्यनेनेदं प्रायश्चित्तमुपवर्णितं, तथाप्यत्र बन्धनयोग्यायोग्यरज्जुविवेकविकोर्षया तस्यैव पुनरनुवाद इत्यदोषः । यद्दा, पूर्वोकस्यैव प्रायश्चित्तस्य विहितरज्जुबन्धविषयत्वमनेन समर्प्यते । निषिद्धरनुबन्धने तु मंपूर्ण कृच्छ्रमवगन्तव्यम् । तत्र तानद्दान् रज्जु विशेषान् दर्शयति,
न नारिकेलै न च शाणपाशेन चापि मौञ्जैन च वल्कशृङ्खलैः। एतैस्तु गावो न निबन्धनौया बध्वाऽपि तिष्ठेत् परशुं गृहीत्वा ॥ ३३ ॥ वल्कानि वंशादिजनितानि । टङ्खलान्ययस्ताम्रादिनिर्मितानि । नारिकेलादिभिर्गावो न बन्धनौयाः। यदि दामान्तरामम्भवादेतैर्दामभिर्व्यध्येरन्, तदा तबिमित्तोपद्रवप्रसङ्गोभवत्यतस्तच्छेत्तुं हस्तेन परशं ग्टहीत्वा मावधानस्तिष्ठेत् । नारिकेलादिभिः, कापीसतन्त्वादिजन्या दृढ़ा रज्जवः सर्व्वा उपलक्ष्यन्ते (१) । अतएवाङ्गिराः,
"न नारिकेलेन च फालकेन न मौचिना नापि च वल्कलेन ।
* 'नारिकेल,-स्थाने 'नालिकेर'-इति पाठो मुद्रितपुस्तके सर्वत्र । । यदि बन्धनीया,-इति मु.। 1 वसनादिजनितानि,-इति मु.
(१) तथाच नारिकेलादिग्रहणं प्रदर्शनार्थ, यया कदाचिया रज्या
गावान बन्धनीयाः,-इति तात्पर्यम् ।
For Private And Personal Use Only