SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [ अ। दहनाचेद् विपद्येत अनड्वान् योनयन्त्रितः। उक्तं पराशरेणैव ह्येकपादं यथाविधि ॥३०॥ इति ॥ वृद्धपराशरेण यथाविध्युक्तमेकं पादकृच्छ्र चरेत्-इति शेषः । एतचापस्तम्बोऽप्याह, "कान्तारेवथवा दुर्ग ग्टहदाहे खलेषु च । यदि विह विपत्तिः स्यात् पाद एको विधीयते"-इति ॥ बुद्धिसमाधानायोक्तान्यनुनानि च निमित्तानि संग्टलाति,रोधनं बन्धनं चैव भारः प्रहरणं तथा । दर्गप्रेरणयोक्त्रं च निमित्तानि बधस्य षट् ॥३१॥ इति॥ ___ तत्र रोधबन्धनयोक्त्रानि पूर्वमेव व्याख्यातानि । भारोऽतिवाहनं, प्रहरणं शस्त्रादिभिस्ताड़नं, दुर्गप्रेरणं प्रौढ़भारं वाहयित्वा अत्युनतपर्वताग्रे नयनम् । __ पूर्व ग्रहे बद्धस्य पनोर्दाहनिमित्तं प्रायश्चित्तमभिहितं, इदानौं तस्यैव मरणे बधनिमित्तं प्रायश्चित्तमाह,बन्धपाशसुगुप्ताङ्गो म्रियते यदि गोपशुः । भवने, तच पापो स्यात् प्रायश्चित्ताईमह ति ॥३२॥ इति॥ बन्धहेतुः पाशो बन्धपाशः । तेन सुगुप्तानि रोधितानि गलपादादौन्यङ्गानि यस्यासौ बन्धपाशसुगुप्ताङ्गः । म चेद्भवने नियेत, तदा इच्छा माचरेदिति । यद्यपि पूर्वत्र, दो पादौ * तत्र, इति मु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy