SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ पराशरमाधवः। [ अ.। *अन्यवांकनलक्ष्मभ्यां वाहने मोचने तथा। सायं संगोपनार्थचा न दुष्येद्रोधबन्धयोः॥२७॥ इति॥ वृषोत्सर्गादौ दाहादिना सक्थिचिहकरणमङ्कनं, तत्रैव गोमयहरिद्रादिना तात्कालिकचिहकरणं लक्ष्म, ताभ्यामन्यत्र, उचिहरहितेषु बलौवर्दुवित्यर्थः । वाहनं गोणोभाराद्यारोपणं, मोचनं तस्यैव भारस्यावरोपणम्। तत्रोभयचैव बलौवर्द्धशरोरे यद्यपि व्यथा जायते, तथापि प्रत्यवायो नास्ति । चिहृदयरहितेषु बलौवर्द्धघु वाहनमोचनयोः शास्त्रेणाङ्गौहतत्वात् । चिह्रोपोतेषु वृषेषु वाहनं न शास्त्रीयं, वाहननिवृत्तिजापनायैव चिहकरणात् । तथा, रात्रौ संरक्षणार्थं रोधबन्धनयोः कृतयोरपि नास्ति प्रत्यवायः । पुनरपि व्यवस्थितान् प्रायश्चित्तविशेषान् विधातुं चत्वारि निमित्तान्युपन्यस्यति,अतिदाहेऽतिवाहे च नासिकाभेदने तथा । नदीपर्वतसञ्चारे प्रायश्चित्तं विनिर्दिशेत्॥२८॥इति ॥ रोगचिकित्मार्थसङ्कनार्थ वा यावद्दहनमपेक्षितं, तावतोऽधिकदहनमतिदाहः । यावन्तं भारमक्लेशेन वोढुं शक्नोति, तावतोप्य-5 * सप्तविंशतितमान त्रिपूत्तमपर्यन्तं लोकत्रयं, यद्यसम्पासाङ्ग:इत्यादि द्वाविंशतितमश्लोकानन्तरं पठ्यते मुहित पुस्तके । परन्तु वङ्गीय - पुस्तकेम्वमिन् कमे पाठादि हैव रक्षितम् । + रात्रौ संयमनार्थन्त, इति मु० । दिने,-इति भु। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy