________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२२.४
[६] ष० ।
व्यापादयति यो गान्तु तस्य शुद्धिं विनिर्दिशेत् ॥ २३ ॥ चरेत् सान्तपनं काष्ठे प्राजापत्यन्तु केाष्टके । तप्तकृच्छन्तु पाषाणे शस्त्रेणैवातिकृच्छ्रकम् ॥ २४ ॥ इति ॥
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
प्राजापत्यतप्तकृच्छ्रयोः स्वरूपं पूर्व्वमेवोपदर्शितं, मान्तपनातिकृच्छ्रयोः स्वरूपं तूपरिष्टादच्यते ।
न च काष्ठादीनां बधनिमित्तत्वे समाने सति प्रायश्चित्तवैषम्यमयुक्रमिति शङ्कनीयम् । शास्त्रकगम्येऽर्थं युक्तिभिरुपालम्भामम्भवात् (९) । एवं तर्हि सर्व्वत्र न्यायविचारो निरर्थक इति चेत् । न, वचनानां परस्परविरोधे सति न्यायस्य निर्णायकत्वात् २ । यथोक्त्रेषु चतुर्षु क्रमेण चतुर्व्विधान् दक्षिणाविशेषानाच, -
For Private And Personal Use Only
-
(१) धम्र्मो हि शास्त्रैकसमधिगम्योऽर्थः । “ श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्व्विधं प्राहुः साक्षाद्धम्र्म्मम्य लक्षणम्" —इत्यादिना शास्त्रस्य धर्म्मलक्षणत्वोक्तः । तथाच जैमिनिसूत्रम् । “चोदनालक्षणोऽर्थो धर्मः ( मी० १० १५० २० ) – इति । “धर्मस्य शब्दमूलत्वादलब्धमनपेतं स्यात् । ( मी० १ ३५० १ सू० ) " - इति च । एवञ्च धर्मे न्यायोऽकिञ्चित्करः । शुचि नरशिरः कपालं प्राण्यङ्गत्वात् - इत्यादिवदागमबाधितन्यायस्याप्रामाण्यं न्यायविद्भिरप्युक्तम् । अतएवोक्तं मीमांसाभाष्यकृद्भिः । “किमिव हि वचनं न कुर्य्यान्नास्ति वचनस्यातिभारः " - इति |
(२) कायमाशयः । वाचनिक्येव व्यवस्था । यत्र च वचनानां परस्परविरोधस्तत्र तदविरोधसम्पादनार्थं वचनार्थावधारणे विषयभेदकल्पने च न्यायस्योपयोगः । यत्रेदमुक्तम् । “विरोधो यत्र वाक्यानां