________________
Shri Mahavir Jain Aradhana Kendra
३१२
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
[
भ्ट्ङ्गभङ्गाद्यनन्तरं षण्मासमध्ये यदि म्रियते, तदानों भ्टङ्गादिभङ्गस्य तन्निमित्तत्वशङ्कया (१) बधप्रायश्चित्तं कर्त्तव्यं भवेत् । यदा पुनः पदादिभङ्गे षट्सु मासेषु जीवति, तदा बधप्रायश्चित्तं न विद्यते, किन्तु भङ्गादिनिमित्तमेव प्रायश्चित्तमनुष्ठेयम् ।
भङ्गादौ न केवलं प्रायश्चित्ताचरणं, किन्तु तचिकित्साऽपि कर्त्तव्येत्याह
व्रणभङ्गे च कर्त्तव्यः स्वहाभ्यङ्गस्तु पाणिना । यवसश्चोपहर्त्तव्या यावद्दृढवलो भवेत् ॥ २० ॥ इति ॥
व्रणश्च भङ्गश्च व्रणभङ्गौ । त्वक्च्छेदेो व्रणः श्टङ्गाद्यस्थिच्छेदोभङ्गः। स्नेहाभ्यङ्गः इत्यप्यौषधप्रक्षेपस्याप्युपलक्षणम् । यवमस्तृण विशेषः । तेन भक्ष्यं सर्वमुपलक्ष्यते । चिकित्सां योऽप्याह - "यवसश्चोपहर्त्तव्यो यावद्रोहिततद्वणा (९) ।
संपूर्ण दक्षिणां दद्यात्ततः पापात् प्रमुच्यते” - इति ।
For Private And Personal Use Only
(१) पूटङ्गभङ्गाद्यनन्तरं षण्मासाभ्यन्तरे गोर्मरणेऽपि कदाचिद्रोगान्तरोत्पत्त्याऽपि मरणं सम्भवतीति पूटङ्गभङ्गादिनिमित्तक्रमेवेदं मरणमिति निश्चयस्य दुःशकत्वं, परन्तु पूटङ्गभङ्गादेर्भरण हेतुत्वं तदानीमपि शङ्कितुं शक्यतएवेत्याशयेन तन्निमित्तत्वशङ्कयेत्युक्तमिति ध्येयम् । (२) रोहित, — इति णिच्प्रयोगात् व्रणरोहणानुकूलः कश्चन व्यापारः प्रतोयते । स च व्यापारस्चिकित्सैव तस्याएव व्रणरोहणानुकूलत्वसम्भवात् । अतएव सुतरामिदं वचनं चिकित्सायां प्रमाणमिति भावः ।