________________
Shri Mahavir Jain Aradhana Kendra
१८८
www. kobatirth.org
पराशर माधवः ।
“गोघ्नस्य पावनं सम्यग् गदतोमे निबोधत । शस्त्रादिभिश्च हत्वा गा मानवं व्रतमाचरेत् ॥ रोधादिना चाङ्गिरममापस्तम्बोक्रमेव वा । पादं चरेद्रोधबधे कृच्छ्रा बन्धपातने ॥ श्रतिवाह्य च पादोनं कृच्छ्रमज्ञानताड़ने (१) । गर्भिणीं कपिलां दोग्ध्रीं होमधेनुञ्च सुव्रताम् (९) ॥ रोधादिना घातयित्वा द्विगुणं व्रतमाचरेत् ।
* छच्छ्रमाचा भाताड़ने, — इति मु० ।
Acharya Shri Kailassagarsuri Gyanmandir
(१) रोधः क्षीणायागोराहारप्रचारनिर्गमविरोधः । बन्धनं विहितेतर - बन्धनम् । “कुशैः काणैस्च बञ्जीयात् स्थाने दोषविवर्जिते” – इति तु बन्धनं विहितमेव । रात्रौ रक्षार्थं रोधबन्धनयोस्तु न दोषः । “सायं संयमनार्थन्तु न दुष्येद्रोधबन्धयोः " - इति स्मरणात् । एतत् सर्व्वं नवमाध्याये वच्यते ।
1
इत्युक्तलक्षणा | सुव्रता सुखसन्दोह्या ।
。 |
(२) कपिला, “लाङ्गूलं श्वेतवर्णच भाल श्वेतमेव वा । सर्व्वङ्गश्चैव यस्यास्तु सर्व्ववेशैः सुशोभितम् । व्यावर्त्तनं पृष्ठदेशे लाङ्गूलेनैव चुम्बितम् । पूटङ्गं सुशोभनञ्चैव सर्व्वलक्षणसंयुताम् । कपिलां तां विजानीयादति भाग्येन लभ्यते” – इत्युक्तलक्षणा । दोग्ध्री,
-
"शौतिपलदुग्धच्च दोह्या गौर्या दिने दिने ।
पोतवत्सा च या ले।के दोग्ध्री सा परिकीर्त्तिता" ॥
For Private And Personal Use Only