SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । १९७ “कामाद्या मकामाद्दा गोध्नस्य पुरुषस्य वै । ब्राह्मणानुजया तत्र यथावदनुपूर्वशः ।। मशिखं वपनं कुर्यात् मासमेकं व्रतं चरेत् । पयोगी(१) पञ्चगव्याशौ गोष्ठशायौ जितेन्द्रियः ॥ गवामनुगमञ्चैव तस्माच नियतव्रतः । अद्भिर्यस्तर्पयेन्नित्यं शोधयेद्दुष्कृतं स्मरन् ॥ एकरात्रं जले स्थित्वा त्रिरात्रं तदनन्तरम् । गोदानं सर्वशत्या च ब्राह्मणेभ्यः प्रयच्छति ॥ स किल्विषात् समुत्थाय मुच्यते नात्र संशयः" इति । चतुर्विंशतिमते, "गोनः सौम्यत्रयं कुर्यात् इच्छू वा नवमासिकम् । गोमूत्रयावकाहारस्त्रिभिर्मासैस्तु वा चिः(२) । गवामनुगमं कुर्याद् गवां मथे वसन् निशि । पञ्चगव्याशनो नित्यं गोवधात् तु प्रमुच्यते"-दति ॥ वृहस्पतिः, * ब्राह्मणान् ज्ञापयेत्, इति मु.। + पिवेद पञ्चगव्यानि,-इति मु.। (१) पयोशी. क्षीराशौ । “कुरवात्महितं मन्त्रम्"-इतिवत् सन्धिराघः । (२) सौम्यत्रयं सौम्यवछत्रयम् । तथाच सौम्यकृच्छ्रत्रयं, नवमासव्यापक प्राजापत्यव्रतं, मासत्रयगोमूत्रयावकाहारश्चेति त्रीणि प्रायश्चित्तान्यत्र विहितानि । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy