________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
8
.1
शङ्खोऽपि,
“यथा पृथिव्यां वौजानि रत्नानि निधयोयथा । एवमात्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च” इति । यद्यन्तरेणापि भोगं दुरितलेपः तौयेत, तदा सुकृतलेपोऽपि चौयेतेत्यतिप्रसङ्गः । तस्मात् प्रायश्चित्तं न कर्त्तव्यमिति पूर्वपक्षिण
कु-देव प्रायश्चित्तमिति प्रामाणिकानां दर्शनम् । ते हि अतिमुदाहरन्ति, 'पुनस्तोनेनेष्ट्वा पुनः मवनमायान्नि' इति । अयाज्ययाजनादिभिनित्यकर्माधिकाराष्टा ऐकाहिकेनेट्वा सवनवयसायं कर्म पुनः प्राप्नुवन्ति तत्राधिक्रियन्ते इति यावत् । 'नाभुक हीयते कर्म'-दुत्यकृतप्रायश्चित्तविषयं सुकृतविषयञ्च । तथाच स्मृत्यन्तरम्,
"कदाचित् सुकृतं कर्म कूटस्थमिव तिष्ठति। मजमानस्य संसारे यावत्तस्मादिमुच्यते” इति । यदि, 'नाभुकम्' इति शास्त्रमसङ्कोचेन निरङ्कुशं प्रवर्तत, तदा पापक्षयप्रतिपादिकाः माः श्रुतयः स्मृतयश्च कुप्येरन्। तस्मात्, पापक्षशय प्रायश्चित्तं कर्त्तव्यमिति सिद्धान्ताभिधानात् प्रायश्चित्तं काम्यं, न तु नैमित्तिकम्, इति। नैष दोषः । जातेष्टिदृष्टान्तेन दत्तोत्तरत्वात् । अन्यथा, पूर्वादाहृतवृहस्पतिवचनविरोधात् ।
मनु, नैमिनिकत्वे ग्रहणस्नानस्येव प्रायश्चित्तस्याकरणे दुरितान्तरमुत्पद्येत, ततस्तस्यापि प्रायश्चित्तान्तरं, तस्याप्यकरणे दुरितान्तरं प्रायश्चित्तान्तरमित्येवमनवस्था दुरवस्था स्यात् ।
अत्र केचिदाहुः । प्रायश्चित्तानि न केवलं नैमित्तिकानि,
For Private And Personal Use Only