________________
Shri Mahavir Jain Aradhana Kendra
8
101
www. kobatirth.org
प्रायवित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
प्रसक्तिप्रतिषेधसङ्कल्पस्य तत्र विधेयत्वेनावगमात् विहितत्वमार्थिकम् (१) तथा च, अनिग्रहस्योभयो लङ्घनरूपत्वात् तृतीयनिमित्तलेन पृथगुपादानम् । तदेवं विहिताकरणादिनिमित्तवन्तं प्रति चोदनानैमित्तिकं प्रायश्चित्तम् ।
ननु, गौतमस्मृतावस्य काम्यत्वं प्रतौयते, फलभावाभावावुपजीव्य पूर्वोत्तरपचाभ्यां तस्य कर्त्तव्यत्वनिर्णयात् । तदचनं च, "उकोवर्णधर्मशाश्रमधर्मश्च । श्रथ खल्वयं पुरुषोयाज्येन कर्मणा लिप्यते, यथैतदयाव्ययाजनमभक्ष्यभक्षणममेध्यमेधनं शिष्टस्याक्रिया निषिद्धसेवनमिति । तत्र प्रायश्चित्तं कुर्य्यात् न कुर्य्यात् इति मौमांसते । म कुर्य्यादित्याः । न हि कर्म क्षीयते, - इति । कुर्य्यादित्यपरे । पुन स्तोमेनेष्ट्वा पुनः सवनमायान्तीति विज्ञायते, व्रात्यस्तोमेनेष्ट्वा तरति सव्वं पाशानन्तरति ब्रह्महत्यां योऽश्वमेधेन यजते ” – इति । श्रयमर्थः 1 याज्यं गर्हितमयाज्ययाजनादि, तत्कृतस्य पापस्य निवर्त्तयितुमशक्यत्वात् तनिवृत्तये प्रायश्चित्तं न कर्त्तव्यम् । न हि कृतं कर्म भोगमन्तरेण चपयितुं शक्यते । श्रतएव स्मृत्यन्तरम्, -
"नाभुक्तं क्षीयते कर्म कल्पकेोटिशतैरपि । श्रवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ” - इति ।
(१) यथा प्रजापतिव्रते "नोद्यन्तमादित्यमीक्षेव नातं यान्तम् ” - इवनानीक्षणसङ्कल्पोलच्यते " तस्य व्रतम् " - इति व्रतत्वेन कीर्त्तनात् । तथा प्रकृतेऽपि स्वातकव्रतत्वेन कीर्त्तनात् प्रमक्तिप्रतिषेधसङ्कल्पो लक्ष्यते, — इति भावः । एतच्च, मीमांसादर्शनस्य चतुर्थाध्यायस्य प्रथमपादे तृतीयाधिकरणे भाष्यादौ व्यक्तम् ।
2
For Private And Personal Use Only