SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। एतावता चतुष्पादप्रायश्चित्तस्यानुष्ठितत्वात् अस्य शुद्धौ नास्ति कश्चित् संशयः । मशिखमित्यादिना माङ्गं प्रायश्चित्तं यदुक्क, तदेव च्यवनचाह । “प्राजापत्यव्रतं गोबधे प्रायश्चित्तं, नखाणि रोमाणि छित्वा, मशिखं वपनं कृत्वा, विधवणवानं गवामनुगमनं सह शयनं, समूहहणानि रथ्यासु चारयेत् *, ब्रतान्ते ब्राह्मणभोजनम्" इति। प्राचार्योंकहायनादिचतुर्विधनध्यभेदमभिप्रेत्य व्रते पक्षचतुष्टयमपन्यस्तम्, तदेव भञ्धन्तरेण वृद्धप्रचेता आह, "एकवर्षे हते वसे कच्छ्रपादो विधीयते । अबुद्धिपूर्वं पुंसां स्थात् दिपादस्तु विहायने । बिहायणे त्रिपादः स्यात् प्राजापत्यमतः परम्”-दति ॥ ननु श्राचार्योक्काद्गोवधप्रायश्चित्तादधिकानि वहुविधानि गोबधप्रायश्चित्तानि नानामुनिभिर्दर्शितागि । तत्र कानिचित्कालेनाधिकानि । तद्यथा, एकमास-दिसास-चिमासादिब्रतानि कालताऽधिकानि । तथा, कानिचिदानेनाधिकानि। तद्यथैकगदानमारम्य सहस्रगोदानपर्यन्तानि! कानिचित्कायनेगेनाधिकानि! तद्यथा, द्वादशराजोपवाभादौनि । वाढं, तत्र निमित्तगौरवं ब्रतगौरवं च पालोच न्यायेम विषयव्यवस्था कल्पनौया। तां च वयं प्रदर्शयामः । तत्र याज्ञवल्क्यो ब्रतचतुष्टयमाह, * सम्यक टणानि दद्यात् सुचारयेत्, इति मु. । + यचेता,-इति मु.। । तानि च,-इति सो० स० शा० पुलकेषु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy