________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थ.] प्रायश्चित्तकाण्डम्।
१८७ विदिनं चैकभक्ताशी त्रिदिनं नक्तभाजनः । दिनत्रयमयाचौ स्यात् चिदिनं मारुताशनः ॥३६॥ चतुरहं चैकमक्ताशी चतुरहं नक्तभाजनः । चतुर्दिनमयाची स्थाचतुरहं मारुताशनः ॥ ४० ॥ इति॥
एकभकनकायाचितोपवासाः प्राजापत्यस्वरूपम् । मोऽयमाद्यः कल्पः । द्विगुणीभूतकभकादिचतुष्टयं यत्, तत् द्वितीयः कल्पः । चिगुणीभूतकभक्कादिचतुष्टयं हतीयः कल्पः। चतुर्गुणीभूतकभकादिचतुष्टयं चतुर्थ: कल्पः । तएते चत्वारः कल्या बधभेदेषु योजनौयाः । तद्यथा । एकहायनस्थ बधे प्रथमः । विहायनस्य बधे द्वितीयः । त्रिहायणस्य बधे हतीयः । उरितनवयस्कस्य बधे चतुर्थः ।
यथोकबतचरणानन्तरकर्त्तव्यमाद,प्रायश्चित्ते ततश्चौणे कुर्याद्ब्राह्मणभोजनम्। विप्राणां दक्षिणां दद्यात् पवित्राणि जपे हिजः॥४१॥
इति ॥ पवित्राणि पवमानसूकादौनि । भोजनदक्षिणा अपाः शल्यसारेण द्रष्टव्याः ।
उपस्थानबतादेशनचर्यात्मकान् बीन् प्रायश्चित्तपादानभिधाय शुद्धिप्रकाशनरूपञ्चतुर्थपादमाह,-- ब्राह्मणन् भाजयित्वा तु गोनः शुद्धो न संशयः । इति।
स्वकीयविश द्धिख्यापनार्थं स्वबन्धूनशेषान् ब्राहाणान् भोजयेत् ।
For Private And Personal Use Only