SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । खकीयेषु परकीयेषु वा ग्रहादिषु मञ्चितं शाल्यादिकं यदि काचिद्गौभक्षयेत्, तदा तां पश्यबपि निवारकाणमग्रे न कथयेत् । तथा, वत्मोयदि दोहकालादन्यत्र स्तनं पिवेत्, तदा नमपि वत्सं न कथयेत् । पुनरप्यन्यदितिकर्त्तव्यमाह,पिवन्तीषु पिवेत्तोयं संविशन्तोषु संविशेत् । पतितां पङ्कलमा वा सर्वप्राणैः समुद्धरेत्॥३४॥इति॥ स्वयमत्यन्तषणातीऽपि गवामुदकपानात् पूर्वमुदकं न पिवेत् । तथा, चिरस्थितिगतिभ्यां पादयोwथां प्राप्यापि गोसवेशनात् प्राक् खयं न संविशेत् । यत्र कापि रोगात सतौ भूमौ पतिता वा, जलपानाद्यर्थं गत्वा पके मना वा गौर्यदा दृष्टा, तदानीमेव खप्राणेषु लोभं* परित्यज्य मर्वेणापि प्रयत्नेन तां गामुद्धरेत् । ___ ननु खमाणेचस्लुब्धस्य प्रक्रान्तब्रतममाप्यभावे दुरितक्षयोन स्थादित्यत श्राह,ब्राह्मणार्थे गवार्थे वा यस्तु प्राणान् परित्यजेत् । मुच्यते ब्रह्महत्याया गोप्ता गोर्बाह्मणस्य च ॥३५॥इति। अनुष्ठेयेभ्यः। सर्वेभ्यो ब्रतेभ्यः इदमधिकं अतं यहोब्राह्मणद्यर्थ मरणम् । तत्र कुतो ब्रतभङ्गभङ्गाऽवकाशः । स्वयं मरणमभ्युपगम्य * लौल्यं,-इति शा। । व्यनुष्ठितेभ्यः, इति मु० । 24 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy