________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
पराशरमाधवः ।
[
अ०।
गोबधप्रायश्चित्तं, तदिदानीमाऽध्यायपरिसमाप्तेर्निरूपयति । तत्र सशिखमित्यादिना बहुविधमितिकर्त्तव्यमाह,सशिखं वपनं कृत्वा विसध्यमवगाहनम् । गवां मध्ये वसेद्राचौ दिवा गाश्चाप्यनुब्रजेत् ॥३१॥ इति॥
शिखाऽपि यथा न परिशिय्यते, तथा वपनं कुर्यात् । सन्ध्यात्रये च नद्यादाववगाहेत। रात्रौ गोष्ठे गोमध्ये गयौत । दिवसे तु चरन्तौर्गाः अनुचरेत् ।
इति कर्त्तव्यतान्तरमाह,उष्ण वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्बीनात्मनस्त्राणं गोरकृत्वा तु शक्तितः॥३२॥ इति॥
निदाघसन्तापे प्रथमतोगवाञ्छायां सम्पाद्य पश्चात् स्वयं छायायामुपविशेत् । एवं वर्षादौ । वर्ष ति मति दृष्टिपौड़ितानां गवां शालादिसम्पादनेन रक्षां कुर्यात् । तथा, हेमन्तशिशिरयोर्निशि निवासाय मौतरहितं स्थानं सम्पादयेत् । तथा, यदा कदाचित् मारुते भृशं वाति मति, स्थानादिसम्पादनेन तदुपद्रवात् संरक्षेत् । यदा गवां रक्षां कत्तुं न शक्नुयात्, तदा खात्मनोऽपि रक्षां न कुर्यात् ।
अन्यदितिकर्त्तव्यमाह,आत्मनो यदिवाऽन्येषां गृहे क्षेत्रे खलेऽथवा । भक्षयन्तों न कथयेत् पिवन्तं चैव वत्सकम् ॥३३॥इति॥
For Private And Personal Use Only