________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्तकाण्डम्।
एवं पापात् समुद्धृत्य तेन तुल्यं फलं लभेत्”--इति । सर्वथा दद्यादित्ययं नियमो यथाविध्युपपन्नविषयः । तथा च हारोतः,
“यनादेव पुरस्कृत्य विप्रांस्तत्र दशावरान् ।
प्रणिपत्य च भल्या च प्रायश्चित्तं विनिर्दिशेत्" इति ॥ विनिर्दिशेत् याचेत, इति यावत् । यथाविध्युपपत्त्यभावे प्रायश्चित्तं न देयम् । तदाहाङ्गिराः,
"अनर्चितैरनाइतैरपृष्टश्च यथाविधि ।
प्रायश्चित्तं न दातव्यं जनद्भिरपि च द्विजैः” इति !! ज्ञानेनाज्ञानेन वा प्रायश्चित्तस्यान्यथानिर्देशे प्रत्यवायं सएवाह,
"अजानन्यस्तु विब्रूयाजानन्यश्चान्यथा वदेत् ।
उभयोहि तयोर्दोषः पक्षयोरुभयोरपि”-इति ॥ विधित्सितस्य प्रायश्चित्तस्य गौरवलाघवनिर्णयाय देशकालादयः परोक्षणीयाः । तदाह बौधायनः,
"भरीरं वलमायुश्च वयः कालच्च कर्म च ।
समौक्ष्य धर्मविद्युझ्या प्रायश्चित्तं प्रकल्पयेत्”- इति । हारौतोऽपि,
“यथावयो यथाकालं यथाप्राणं च ब्राह्मणे । प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर्धर्मपाठकैः । येन शुद्धिमवाप्नोति न च प्राणैर्वियुज्यते । आत्ति वा महतौं याति न चैतद् व्रतमादिशेत्” इति ॥
For Private And Personal Use Only