SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.] प्रायश्चित्तकाण्डम् । चातुर्वेद्यो विकल्पी च अङ्गविधर्मपाठकः । चयश्चाश्रमिणो मुख्याः पर्षदेषा दशावरा ॥२७॥ इति। तत्र चातुर्वेद्यादिशब्दार्थानङ्गिरा विवृणोति,"चतुर्णामपि वेदानां पारगा ये द्विजोत्तमाः । खैस्खैरङ्गेविनाऽप्येते. चातुर्वेद्या इति स्मृताः ।। धर्मस्य पर्षदश्चैव प्रायश्चित्तक्रमस्य च । त्रयाणां यः प्रमाणज्ञः स विकल्पो भवेद्द्विजः । शब्दे च्छन्दसि कल्पे च शिक्षायाञ्च सुनिश्चितः । जोतिषामयने चैव मनिरुतऽङ्गविद्भवेत् । वेदविद्याव्रतस्त्रातः कुलशौलसमन्वितः(२) ॥ (१) शब्दे शब्दशास्त्रे व्याकरणे इति यावत् । छन्दसि छन्दःशास्त्रे पिङ्ग लादिप्रणीते। कल्पे श्रौतसूत्रापरनामधेये वैदिकयज्ञाद्यनुष्ठानप्रतिपादके लायायनादिप्रणीते नानाशाखागतलिङ्गादिकल्पिते कल्पसूत्राख्ये ग्रन्थे । शिक्षा पाणिन्यादिप्रणीता वर्णोच्चारणादिनियामिका । ज्योतिषामयनं ज्योतिःशास्त्रम् । निरुक्तं याखादिप्रणीतं नैघण्टककाण्डव्याख्यानरूपं वैदिक ब्दानां व्युत्पादक शास्त्रम् । रतावन्त्येवाङ्गानि वेदस्य । तदुक्तम् । “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां चितिः। छन्दसां विचितिचैव घड़को वेदह. प्यते" इति। (२) यः खल समाप्य वेदमसमाप्य व्रतानि समावर्त्तते, स वेदविद्यास्त्रातः। यः पुनरसमाप्य वेदं समाप्य व्रतानि समावर्तते, स व्रतस्मातः । यच वेदं व्रतानि च समाप्य समावर्त्तते, सोऽयं वेदविद्यावतमातः । शौल त्रयोदशविधं हारीतोक्तम् । तथाच हारीतः । “ब्राह्मण्यता देवपि. 23 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy