________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७
पराशरमाधवः।
[
.
अनेकधर्मशास्त्रज्ञः प्रोच्यते धर्मपाठकः ।
ब्रह्मचर्याश्रमादूद्धं विप्रोऽयं वृद्ध उच्यते"-इति ॥ चातुर्वेद्यत्वाद्युकविशेषणविशिष्टागार्हस्याद्यन्यतमाश्रमवर्तिनोदशसंख्यकाः परिषच्छब्दवाच्याः । दशसंख्या प्रवरायस्यां परिषदि, मा दशावरा। दशवमवरः पक्षः, ततोऽयर्वाचौनः पक्षो नास्तीत्यर्थः । ये तु “चत्वारोवा त्रयो वाऽपि”-इत्यादिपक्षाः पूर्वमुपन्यस्ताः, ते स सर्वेऽपि गोबधादर्वाचीनविषये द्रष्टव्याः। सेयं दशमख्योपेता परिषड्वाह्मणस्य प्रायश्चित्तित्वे सत्यवगन्तव्या। यदा उत्रियवैश्यौ प्रायश्चित्तिनौ भवतः, तदा विशेषमङ्गिरा श्राह,
“परिषद्या ब्राह्मणानां सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा चैव परिषच्च तं स्थितम् ।। ब्राह्मणो ब्राह्मणानान्नु क्षत्रियाणां पुरोहितः । वेश्यानां याजकश्चैव सएव व्रतदः स्मृतः * ॥ अगुरुः क्षत्रियाणाञ्च वैश्यानां चाप्ययाजकः । प्रायश्चित्तं समादिश्य तप्तकच्छं ममाचरेत्” इति । यथा क्षत्रियवैश्ययोः परिषद्धिः , तथा व्रतमपि वर्द्धते । दयञ्च बद्धिरुत्तमजातिहनने द्रष्टया। इतरविषये व्रतहामस्या भिधानात् । तथा च चतुर्विंशतिमते दर्शितम्,
* रते व्रततराः स्मृताः,-इति मु० ।
टभक्तता सौन्यता अपरोपतापिता अनसूयता मदुता घपारुष्यं मैत्रता प्रियवादित्वं कृतज्ञता शरण्यता कारुण्यं प्रशान्त तेति त्रयोदश विधं शोलम्" इति ।
For Private And Personal Use Only