________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
पराशरमाधवः।
[स।
तथा सामविधाने मामगाः पठन्ति । “अभोज्यभोजने कृते पन्था अधोदिवति" । साम गायेदिति शेषः । मनुरपि,
"प्रतिग्टह्याप्रतिग्राह्यं भुक्का वाऽन्नं विगर्हितम् । जपस्तरत्ममन्दौयं पूयते मानवत्यहात् ॥ हत्वा लोकानपौमांस्त्रीनगन्नपि थतस्ततः ।
ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किञ्चन"-इति॥ जनकरीत्या वेदविदः स्वकीयपापमपनयन्तु नाम, तथापि त्रैलोक्यं तारयन्त्येते, इति यदुनं, तत् कथमित्याशय दृष्टान्तेन तदुपपादयति,अमेध्यानि तु सवाणि प्रक्षिप्यन्ते यथोदके। तथैव किल्विषं सर्व प्रक्षिपेच द्विजोत्तमः॥२३॥
गङ्गादिजले स्वातुं प्रविष्टाः शरीरात् स्नेदादौन्यमेध्यानि प्रक्षिपन्ति, नैतावता तज्जलभपूतं भवति, प्रत्युत मलोपेतान् पुरुपान्मलापनयनेन पुनाति। एवं प्रायश्चित्तौ स्वकीयमशेषं पापं वेदवित्सु प्रचिपति । तत्र प्रक्षेपणं नाम, तदपनयनाय तेषामग्रे निवेदनम् । ते च तदपनयागौकारमात्रेण न दुष्यन्ति । प्रत्युत तदपनयसमर्थं शास्त्रीयमुपायमुपदिश्य पापिनमुद्धरन्ति । तस्मातारयन्तीत्युपपन्नम् ।
ननु वेदविद्यायाश्चेदीदृशो* महिमा, तईि वेदविदां दैनन्दिनगायञ्युपात्यादिवलमानामपि परिषत्त्वं प्रसज्यतेत्यत श्राह,* वेदविदश्चेदीदृशो, इति मु० ।
For Private And Personal Use Only