________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
प्रायवित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
८० ।]
*
न ह्यग्निः श्मशाने नीतः शवादिभचणे प्रयुक्तः
इत्येतावता
देवत्वं परित्यजति । एवं वेदविदोभूदेवस्य श्रभक्ष्याभोज्यादिदोषमात्रेण भूदेवत्वं नापैति । एकैकस्य मन्त्रस्याभक्ष्यभक्षणाद्यशेषदोवनिवर्त्तकत्वात् । तथाच मन्त्रलिङ्गम्, -
“यदन्नमद्मानृतेन देवा
दास्यन्नदास्यनुत वा करिष्यन् । यद्देवानाञ्चक्षुष्यागोऽस्ति यदेव किञ्च प्रतिजग्राहमनिर्मा तस्मादनृणं कृणोतु ।
For Private And Personal Use Only
१७३
यद मद्मि वधा विरूपं
1
aret हिरण्यमुत गामजामविम्” - इत्यादि । अनृतेन परकीयादौ स्वकौ यत्वादिवचनेन । दास्यन्ननर्हेभ्यो नष्टशौचाचारादिभ्यः स्नेहानुबन्धेन हव्यकव्ययोः प्रयच्छन् । अदास्यन्नतिथ्यादिभ्यो योग्येभ्योऽप्रयच्छन् । करिष्यन्नन्नभचणव्यतिरिक्रमविहितं प्रतिषिद्धं वा कुर्व्वन् । चचुष्यागोनग्न परयोषिदवलोकनादि । तथा, देवानामागः विष्वाद्यं देवं दृष्ट्वाऽप्यनमस्कारादि । यदेव किञ्च श्रश्वमहिषकालपुरुषाद्यप्रतिग्राह्यं यत् किञ्चित् प्रतिजग्राहं प्रतिग्टहीतवानस्मि।वहुधा विरूपं गणान्नगणिकान्नादिरूपेणानेकदोषयुक्तं यदन्नमद्मि भचितवानस्मि । यथोक्रात् सर्व्वस्मादोषजातात् मामनृणं पूतमद्मिः करोत्विति मन्त्रार्थः । तथा, पवमानसूक्तादिमहिमानमधीयते,“क्रयविक्रयाद्योनिदोषादभक्ष्यभोजनात् प्रतिग्रहात् । असद्भोजनाच्चापि नृशंसं तत् पावमानीभिरहं पुनामि " - इति ।
* शवादिभक्षकः - इति शा० स० ।