SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७० पराशरभाधवः। पादेयम्। यथा वैदिके कर्मणि सोमाभावे पूतिकाभिषवः(१), यथा वा लोके शाख्यभावे कोद्रवादिः। तइब्राहाणामासस्यापि कार्यक्षमत्वे स्यात् क्वचिदुपादेयत्वं, न त्वध्ययनहोनख्य प्रायश्चित्तविधानक्षमताऽस्ति । न हि, पुलोपेतस्य वरस्थासम्भवेऽपि षण्डः प्रजामुत्पादयचुपलभ्यते, नापि भूमिरूषरा क्वचित् फलति, नाप्यज्ञः प्रतिग्रसन् दात्रे फलहेतुः । एवमसावपि सुगादिमन्त्रहीनो न पापनिवृत्तिफलहेतुः। ननु नामधारकः पण्डादिवदफलश्चेत्तर्हि संस्कारैरपि तस्य कोऽतिशयः स्यात् । न हि, स्वदारमहस्रेणापि षण्डः प्रजनयितुं प्रभवति, इत्याशय, दृष्टान्तेन संस्कारकृतोत्कर्ष सम्भावयति,चित्रकर्म यथाऽनेकैरङ्गैहन्मील्यते शनैः। ब्राह्मण्यमपि तद्दति संस्कारैर्मन्त्रपूर्वकः ॥ १६ ॥ चित्रकरः प्रथमं पटादौ मसौरेखाभिः मावयवपूर्णणि मनुष्यादिरूपाणि लिखति । न च तानि तावता दर्शनीयत्वमापधन्ते । पुनस्तान्येव रूपाणि नानाविधवर्णप्रक्षेपेणोन्मौलितानि दर्शनौयतामापद्यन्ते। एवं जातिब्राह्मण्यं मास्त्रीयसंस्कारैरुत्वव्यते । मन्त्रसंस्कारेण विद्यादयोऽप्युपलक्ष्यन्ते । अतएवाङ्गिराः, (१) "यदि सोमं न विन्दत्, पूतीकानभिधुणुयात्" इति श्रुतेरिति भावः। यथा च पूतीकस्य सोमप्रतिनिधित्वं, न पुनः सोमालाभनिमित्ते द्रव्यान्तरविधिः, तथा व्यक्तं मीमांसादर्शन-पठाध्याय-तीयपादगत-त्रयोदशाधिकरणे। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy