________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ .] प्रायश्चित्तकाण्डम् । १५
"जन्मशारीरविद्याभिराचारेण श्रुतेन च । धर्मेण च यथोक्तेन ब्राह्मणत्वं विधीयते । चित्रकर्म यथाऽनेकैरङ्गरुन्मौल्यते शनैः । ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपूर्वकैः” इति । ननु यत्र संस्कृता वहवो न गन्ति तत्रैकेन संस्कृतेन सहेतरे नामधारकाः प्रायश्चित्तविधायिनः स्युरित्याशङ्ख्याह,प्रायश्चित्तं प्रयच्छन्ति ये दिजानामधारकाः। ते विजाः पापकर्माणः समेतानरकं ययुः ॥२०॥
समेता: एकेन संस्कृतेन सङ्गताः। ययुः यान्तीत्यर्थः । यद्यपि संस्कृतः स्वयं नरकं नाईति, तथाप्यन: सहेकस्यां परिषद्युपवेशनात्तस्य नरकप्राप्तिः । एतच्च चतुर्विंशतिमते स्पष्टीकृतम्,
"प्रायश्चित्तं प्रयच्छन्ति ये विजा नामधारकाः ।
ते सर्वे पापकर्माणः, समेतोनरकं ब्रजेत्”-दति ॥ समेतोनाभधारकैः मङ्गतः । तावतैवापराधेन मन्त्रसंस्कृतोऽपि नरकं प्राप्नोति । __ ननु संस्कृतानां वहनामपि ग्टहिणां कथं परिषत्त्वं स्यात्, नामधारकवत्तेषामिन्द्रियरतत्त्वादित्यामङ्याह,ये पठन्ति दिजावेदं पञ्चयज्ञरताश्च ये। चैलोक्यं तारतन्त्येते पञ्चेन्द्रियरता अपि ॥२१॥
वेदोहि निखिलपापापनयने समर्थः । तथा च तैत्तिरीय
For Private And Personal Use Only